SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. . १२३ पारावतः कलरवः कपोतो ऽथ शशादनः ॥ १४॥ पत्री श्येन उलूकस्तु वायसारातिपेचकौ ॥ "दिवांधः कौशिको घूको दिवाभीतो निशाटनः॥" व्याघ्राटः स्याद्भरद्वाजः खंजरीटस्तु खंजनः॥ १५॥ लोहटष्ठस्तु कंकः स्यादथ चाषः किकीदिविः ॥ कलिंग,गधूम्याटा अथ स्याच्छतपत्रकः॥ १६ ॥ दाघाटो ऽथ सारंगस्तोककश्चातकः समाः॥ कृकवाकुस्ताम्रचूडः कुकुटश्चरणायुधः॥ १७॥ विच इति ख्यातस्य विषकीटस्य । तत्रालिरिदंत इन्नंतश्च । पारावतः “पारापतः। पारापतः कलरवः पत्री श्येनः शशादन इति रभसः ।" कलरवः कपोतः त्रीणि पारावतस्य पारवा “खबूतर" इति ख्यातस्य । पारावतः कपोतः स्यात्कपोतो विहगांतर इति विश्वः । शशादतः ॥१४॥ पत्री श्येनः त्रयं ससाणा इति ख्यातस्य । उलूकः वायसारातिः पेचकः त्रयमुलूकस्य घूक “घुबड पेंचापक्षी” इति ख्यातस्य । "दिवांधः कौशिकः घूकः दिवाभीत: निशाटनः पंचकमप्युलूकस्य ।” व्याघ्रोटः भरद्वाजः द्वे भरद्वाजस्य पक्षिणः “ कुकुडकोंबा कुंभारकोंबा इति ख्यातस्य ।" खंजरीटः खंजनः द्वे चलत्पक्षस्य पक्षिविशेषस्य " ताजवा तय्यर इति ख्यातस्य" ॥ १५ ॥ लोहपृष्टः कंका । कंकश्छद्मद्विजे ख्यातो लोहपृष्ठकृतांतयोरित्युक्तत्वात् । द्वे बाणोपयोगिपत्रस्य पक्षिभेदस्य । चाषः “ चासः । इक्षुपक्षिभिदोश्वास इति दंत्यांतेषु रुद्रः।" किकीदिविः “किकीदीविः किकिदिविः किकिदिवः किकीदिवीः किकीदिवः किकिः किकी दिवः । चाषो दिविः किकिः स्मृत इति व्याडिः ।" द्वे चारगा " चाष, चास, तास,” इति ख्यातस्य । कलिंगः भृगः धूम्याटः त्रीणि फेंचुहार "मस्तकचूड पक्षी” इति ख्यातस्य । “धूमसमूह इवाटतीति धूम्याटः ।" शतपत्रकः ॥ १६॥ दार्वाघाटः द्वे वटफोरा “सुतार पक्षी, काष्ठकुट्ट, टांकारी" इति ख्यातस्य । सारंगः “शारंगः । शारंगश्चातके ख्यातः शबले हरिणेऽपि चेति तालव्यादावजयः। तोककः चातकः त्रीणि चातकस्य। कृकवाकुः ताम्रचूडः कुकुटः चरणायुधः चत्वारि कुकुटस्य “ कोंबडें इति ख्यातस्य" ॥ १७॥ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy