SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२२ सटीकामरकोशस्य [सिंहादिवर्गः “अधोगता तु खनको वृकः पुंध्वज उंदुरः” ॥ उंदुरुर्मूषकोऽप्याखुगिरिका बालमूषिका ॥ सरटः कृकलासः स्यान्मुसली गृहगोधिका ॥ १२॥ लूता स्त्री तंतुवायोर्णनाभमर्कटकाः समाः॥ नीलंगुस्तु कृमिः कर्णजलौकाः शतपयुभे ॥ १३ ॥ वृश्चिकः शूककीटः स्यादलिगुणौ तु वृश्चिके । वृकः पुंध्वजः उंदुरः पंच क्षेपकश्लोकगतनामानि मूषकस्य ।” उंदुरुः मूषकः "-हस्वोपधदीर्घोपधमुषमूषधातुभ्यां कनि मुषकः मूषक इति द्वयम्" आखुः त्रयं मूषकस्य, उंदुरुंदुरुरुंदुर इति शब्दार्णवे। गिरिका बालमूषिका द्वे स्वल्पमूषकजातेः। "खर्वानुर्वालमूषिकेति दुर्गः ।” छुडुंदरी गंधमुखी दीर्घतुंडी दिवांधिकेति श्लोकाध केचिदत्र पठंति । एतन्नामचतुष्टयं मूषकसदृशजातिविशिष्टस्य चिचुंद्रीति ख्यातस्य । सरटः कृकलासः “ कृकलाशः कृकुलासः कृतं शिरो ग्रीवा कंठं च लासयति" द्वे सरडा इति ख्यातस्य । मुसली गृहगोधिका “ गृहगोलिकेत्यपि पाठः" द्वे गृहगोधायाः “पाल इति ख्यातायाः ।" मुसति संशयं खंडयति शुभाशुभसूचकत्वात् मुसली ङीषता । मुशलीति तालव्यमध्यापि । ज्येष्ठा स्त्री कुड्यमत्स्या च गृहगोधा गृहालिकेति कोशांतरम् ॥ १२॥ लूता तंतुवायः “ तंत्रवायः” ऊर्णनाभः ऊर्णेव तंतु भी यस्य । मर्कटकः चत्वारि ऊर्णनाभस्य " कोष्टी कोळी इति ख्यातस्य । तत्र लूता नित्यं स्त्री नीलंगुः कृमिः " क्रिमिः । क्रिमिनः कृमिवस्कीटे लाक्षायां कृमिले खर इति मेदिनी । दुमामये भवेत्युंसि कीटे च कृमिवत्किमिरिति रभसः ।" द्वे अपि पुंसि क्षुद्रकीटमात्रस्य "कुसुरडा घुले इति ख्यातस्य"। नीलांगुरिति दीर्घमध्योऽपि । “ नीलंगुरपि नीलांगुरिति द्विरूपकोशः ।" कर्णजलौकाः शतपदी द्वे स्त्रीलिंगे । कर्णजलूका “घोण, गोम वळोजी" इति ख्यातायाः । शतं पादा यस्याः सा । “कर्णजलौकाः सांता । कर्णजलूका कर्णजलौकेति च टावंतापि" ॥ १३ ॥ वृश्चिकः शूककीट: द्वे शूककीटस्य “ ऊर्णादिभक्षकस्य कसर इति ख्यातस्य ।" शूकं शूकाकारं लोम तद्युक्तसर्वांगः कीटः शूककीटः । अलि: “आलिः ।" वृश्चिको द्रुण आलिः स्यादिति बोपालितः । आली । अथाली स्याहृश्चिके भ्रमरे पुमानिति कोशांतरम् ।” द्रुणः "द्रोणः" वृश्चिकः त्रीणि For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy