SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. कदली कंदली चीनश्चमूरुप्रियकावपि ॥ . समूरुश्चेति हरिणा अमी अजिनयोनयः॥९॥ कृष्णसाररुरुन्यंकुरंकुशंबररोहिषाः॥ गोकर्णप्टषतैणर्यरोहिताश्चमरो मृगाः॥ १०॥ गंधर्वः शरभो रामः सृमरो गवयः शशः॥ इत्यादयो मृगेंद्राद्या गवाद्याः पशुजातयः॥ ११ ॥ ऐणं च त्रिषु स्पष्टम् ॥ ८॥ कदली कंदली चीनः चमूरुः प्रियकः समूरुः (एते षट् हरिणभेदाः एकैकम्)। कदलीकंदल्यौ ङीषंते स्त्रियाम् । स्वामिमते तु इन्नंतौ पुंसि । अमी षट् हरिणाः वक्ष्यमाणाः कृष्णसारादयश्च अजिनयोनय उच्यते । यत एते चर्मण्युपयुक्ताः ॥९॥ कृष्णसारः “ कृष्णशारः । कृष्णश्चासौ सारश्च । वर्णो वर्णेनेति समासः । शारः शबलवातयोरिति तालव्यादौ रभसः ।" रुरुः न्यंकुः रंकुः शंबरः “शंवरः संवरः" (शं वृणोति । वृञ् वरणे । रौहिषः “ रोहिषः । रोहिषं कत्तणे ज्ञेयं रोहिषो हरिणांतर इति विश्वप्रकाशः।" गोकर्णः। गोकर्णो ऽश्वतरे सर्प मृगभेदे गणांतर इति हेमचंद्रः । पृषतः एणः ऋश्यः “ऋष्यः । एणः कुरंगमो रिष्यः स्यादृश्यश्चारुलोचन इति त्रिकांडशेषात् । तत्र रिष्यो ऽपि ।” रोहितः “लोहितः" चमरः एते द्वादश मृगाः मृगभेदाः एकैकम् । तत्र कृष्णसारः कृष्णवर्णेन मिश्रः कृष्णमृग इति ख्यातः । रुरुर्देशांतरभाषायां भुवार “रोहें" इति ख्यातः। न्यंकुनागुण इति ख्यातः “शंबरभेदः" । रंकुः चिता "चितळ जंडियार मृगविशेष" इति ख्यातः । शंबरः सांबा “ सांवर” इति ख्यातः । रौहिषः रोही इति ख्यातः । गोकर्णः गोव इति ख्यातः । पृषतः बिंदुविशिष्टः पुषिव इति ख्यातः । एणश्चारुनेत्रः। ऋष्यः शीघ्रगामी । रोहितो रक्तवर्णः चमरश्चामरोपयोगिपुच्छः ॥ १० ॥ गंधर्वः शरभः रामः सृमरः गवयः शशः एते षट् मृगभेदाः । “ शरभस्तालव्यादिः ।" तत्र गंधर्वो गंधविशिष्टः । शरभो लङीसरा इति प्रसिद्धः । रामो रमणीयरूपो मृगभेदः । सृमरः सरणशीलः । गवयः गवा इति ख्यातः । शशः ससा इति ख्यातः एकैकम् । इत्यादयः गंधर्वादयः आदिशब्दादत्रानुक्ता वनपोतादयो ये च पूर्वोक्ता मृगेंद्राद्याः सिंहाद्याश्चमरांताः ये च वर्गांतरे वक्ष्यमाणा गवाद्याः गोहस्त्यश्वादयः ते सर्वे पशुजातयः पशुशब्दवाच्या इत्यर्थः एकम् ॥ ११॥ " अधोगता खनकः १६ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy