SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. "कंठीवो मृगरिपुर्मुगदृष्टिगाशनः ॥ पुंडरीकः पंचनखचित्रकायमृगदिषः ॥ १॥" शार्दूलबीपिनौ व्याघे तरक्षुस्तु मृगादनः॥१॥ वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः॥ दंष्ट्री घोणी स्तब्धरोमा कोडो भूदार इत्यपि ॥२॥ कपिप्लवंगप्लवगशाखामृगवलीमुखाः॥ मर्कटो वानरः कीशो वनौका अथ भन्छुके ॥ ३ ॥ ऋक्षाऽच्छ भल्लमलूका गंडके खगखङ्गिनौ ॥ लुलायो महिषो वाहदिषत्कासरसैरिभाः॥ ४ ॥ नागकेसर इत्युक्तम् । हरिः षट् सिंहस्य । केसरी इन्तः । तालव्यमध्यो ऽपि । पंचं विस्तृतमास्यमस्य पंचास्यः । “पचि विस्तारे । मुखं पादाश्च पंचास्यानीव यस्येति वा"। कंठीरवो मृगरिपुर्मुगदृष्टिमगाशन इत्यादयो ऽप्यस्य पर्यायाः ॥१॥ शार्दूलः द्वीपी व्याघ्रः त्रीणि व्याघ्रस्य । तरक्षुः “तरक्षः” मृगादनः द्वे कुकुराकृतेः कृष्णरेखाचित्रितस्य मृगविशेषस्य “ तरस इति ख्यातस्य ।" वराहः सूकरः घृष्टिः "गृष्टिः" कोलः पोत्री । पोत्रं मुखाग्रं अस्ति यस्य । पोत्रं वस्त्रे मुखाग्रे च सूकरस्य हलस्य चेति । किरिः " किरः" किटिः दंष्ट्री घोणी स्तब्धरोमा क्रोडः भूदारः द्वादश सूकरस्य । तालव्यादिरपि शूकरः । साहचर्याद्धृष्टिः पुंसि । पोत्रिणौ । दंष्ट्रिणौ । घोणिनौ । स्तब्धरोमाणौ ॥२॥ कपिः प्लवंगः प्लवगः शाखामृगः वलीमुख: “ बलिमुखः बलीमुखः" मर्कटः वानरः कीशः वनौकाः नवकं वानरस्य । वनौकसौ । “ शाखाचारी मृगः शाखामृगः” भल्लुकः ॥ ३॥ ऋक्षः अच्छभल्लः भल्लूकः “भालूकः भालूकः " चतुष्कमच्छभल्लस्य आस्वल, रीस इति ख्यातस्य । “केचन भालु इति ख्यातायाः नामचतुष्कमिति वदंति” हस्वमध्यो ऽपि ।भल्लक इति अच्छभल्लपरिषद्विरहतीति प्रयोगः। अच्छ इति च अच्छः स्फटिकभल्लूकनिर्मलेष्विति मेदिनी। गंडकः खडः खड़ी। खडं शृंगं यस्यास्ति । त्रीणि गंडश्रृंगगेंडा" इति ख्यातस्यालुलायः “लुलाप इति ओष्ठ यांतो ऽपि" महिषः वाहद्विषन्। वाहानां हयानां द्विषन् । कासरः सैरिभः पंच महिषस्य "गवा इति ख्यातस्य"॥४॥ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy