SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११७ द्वितीयं कांडम् इक्षुगंधा पोटगलः पुंसि भूम्नि तु बल्वजाः॥ रसाल इक्षुस्तभेदाः पुंड्रकांतारकादयः॥१६३॥ स्यादीरणं वीरतरं मूले ऽस्योशीरमस्त्रियाम् ॥ . अभयं नलदं सेव्यममृणालं जलाशयम् ॥ १६४ ॥ लामज्जकं लघुलयमवदाहेष्टकापथे ॥ नडादयस्तृणं गर्मुच्छयामाकप्रमुखा अपि ॥ १६५॥ अस्त्री कुशं कुथो दर्भः पवित्रमथकत्तृणम् ॥ पौरसौगंधिकध्यामदेवजग्धकरौहिषम् ॥ १६६॥ इक्षुगंधा पोटगलः त्रीणि काशस्य " काशं पुन्नपुंसकम् ।” बल्वजा इत्येकं पुल्लिंगं बहुवचनांतम् “ मोळ, लव्हाळे, लवा इति ख्यातस्य । एको बल्वज इति भाष्यकारवचनादेकत्वे ऽपि ।" रसालः इक्षुः द्वे इक्षोः । पुंडः कांतारकः इत्यादयस्तस्येक्षोर्भेदाः । आदिना कोशकारादिग्रहः " स च । इक्षुः कर्कटको वंशः कां. तारो वेणुनिसृतिः । इक्षुरस्यः पोंडूकश्च रसालः कुसुमारकः इति" एकैकम्॥१६३॥ वीरणं वीरतरं द्वे तृणभेदस्य "काळावाळा इति ख्यातस्य" । अस्य वीरणस्य मूले उशीरं अभयं नलदं सेव्यं अमृणाणं जलाशयम् ॥ १६४॥ लामज्जकं लघुलयं अवदाहं इष्टकापथं इति दश नामानि स्युः । लघु लयं इति पृथगपि । लामज्जकं सुवासं स्यादमृणालं लयं लध्विति सुश्रुतः । अवदाहेष्टमिति अवदाहेष्टकापथमिति चैकैकं पदमिति । नडादयः नडकाशादयः तृणं तृणजातीया इत्यर्थः । " नलादय इत्यपि पाठः । ये च गर्मुच्छयामाकप्रमुखाः । गर्मुच्छचामाको तृणधान्यविशेषौ । प्रमुखशब्दाद्वक्ष्यमाणाः कुशादयः कंगुकोद्रवाद्याश्च । ते ऽपि तृणजातीयाः । “अत्र प्रमुखशब्दान्नीवाराद्या गृहीतव्याः । अन्यथा कोद्रवादीनां हविष्यत्वापातात् । श्यामाकः । श्यामको ऽपि चेति हलायुधाच्छयामको ऽपि ।" एकम् ॥ १६५ ॥ कुशं कुथः दर्भः पवित्रं चत्वारि कुशस्य । तत्र कुशं क्लीबपुंसोः । कत्तृणं पौरं सौगंधिकं ध्यामं देवजग्धकं रौहिषं षट् गंजाण "रोहिसगवत" इति ख्यातस्य तृणभेदस्य ॥ १६६ ॥ छत्रा अतिछत्रः पालनः । पालं क्षेत्रं हंतीति पालनः । For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy