SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११६ सटीकामरकोशस्य [वनौषधिवर्गः सहस्रवीर्याभार्गव्यौ रुहाऽनंताऽथ सा सिता ॥ १५८॥ गोलोमी शतवीर्या च गंडाली शकुलाक्षका ॥ कुरुविंदो मेघनामा मुस्ता मुस्तकमस्त्रियाम् ॥ १५९ ॥ स्याद्भद्रमुस्तको गुंद्रा चूडाला चक्रलोचटा॥ वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः॥१६॥ शतपर्वा यवफलो वेणुमस्करतेजनाः॥ वेणवः कीचकास्ते स्युर्ये वनंत्यनिलोडताः॥ १६१॥ ग्रंथिर्ना पर्वपरुषी गुंद्रस्तेजनकःशरः॥ न.स्तु धमनः पोटगलो ऽथो कार्शमस्त्रियाम् ॥ १६२॥ अनंता षट् दूर्वायाः ॥ १५८ ॥ सा दूर्वा सिता शुक्ला चेत् तत्र गोलोमी शतवीर्या गंडाली शकुलाक्षका इति चत्वारि । कुरुविंदः मेघनामा मुस्ता मुस्तकं चत्वारि मुस्तायाः " मोथ इति ख्यातायाः " । मेघनामा मेघपर्यायनामकः । “मुस्तकं सि क्लीबे च" ॥ १५९ ॥ भद्रमुस्तकः भद्रमिति पृथगपि नाम । “भद्रं स्यान्मंगले हेम्नि मुस्तके करणांतरे इति रुद्रः ।" गुंद्रा द्वे मुस्ताविशेषस्य भद्रमुस्तकस्य " नागरमोथा इति ख्यातस्य ।" अस्त्रियामिति मुस्तकभद्रमुस्तकाभ्यां संबध्यते । धन्वंतरिरिमं भेदमाह । मुस्तकोंऽबुधरो मेघो घनो राजीवशेरुकः । भद्रमुस्तो वराहोऽब्दो गांगेयः कुरुविंदक इति । चूडाला चक्रला उच्चटा त्रीणि उच्चटामूलस्य " फुरडी इति कोंकणे ख्यातस्य मुस्ताविशेषस्य । " वंशः त्वक्सारः कर्मारः त्वचिसारः तृणध्वजः ॥ १६०॥ शतपर्वा यवफलः वेणुः मस्करः तेजनः दशकं वेणोः । ये वेणवः अनिलोद्धताः अनिलेन कीटादिकृतरंध्रगतवायुनोद्धताः स्वनंति शब्दं कुर्वति ते कीचकाः स्युरित्येकम् ॥ १६१॥ ग्रंथिः पर्व परुः "परुरुदंतो ऽपि । मृज्जासारो ग्रंथिपरुः परागः कुसुमे रेणुरिति पुंस्कांडे रत्नकोशात् ।” त्रीणि वंशादिग्रंथेः पेरें इति ख्यातस्य । तत्र ग्रंथिर्ना पुमान् । गुंद्रः तेजनकः शरः “सरः। सरस्तु मुंजो बाणाख्यो गुंद्रस्तजनकः शर इति वाचस्पतेर्दैत्यादिश्च ।” त्रीणि शरस्य । नडः “नलः । अथ पोटगलः पुंसि नले च काशमत्स्ययोरिति मेदिनी।" धमनः पोटगलः त्रीणि देवनळ इति ख्यातस्य । काशं "कासम्"॥१६२॥ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy