SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११२ सटीकामरकोशस्य [वनौषधिवर्गः जीवंती जीवनी जीवा जीवनीया मधुस्रवा॥ कूर्चशीर्षों मधुरकः शृंगहस्वांगजीवकाः॥ १४२॥ किराततिक्तो भूनिंबो ऽनार्यतितोऽथ सप्तला ॥ विमला शातला भूरिफेना चर्मकषेत्यपि ॥ १४३॥ वायसोली स्वादुरसा वयस्था ऽथ मैकूलकः ॥ निकुंभो दंतिका प्रत्यक्श्रेण्युदुंबरपर्ण्यपि ॥ १४४॥ अजमोदा तूग्रगंधा ब्रह्मदर्भा यानिका ॥ मूले पुष्करकाश्मीरपद्मपत्राणि पौष्करे ॥ १४५॥ अव्यथाऽतिचरा पद्मा चारटी पद्मचारिणी ॥ प्रसिद्धायाः ओषधेः ॥ १४१ ॥ जीवंती जीवनी जीवा जीवनीया मधुस्रवा “मधुः स्रवेति पदद्वयमपि । मधु पुष्परसे क्षौद्रे मद्ये ना तु मधुद्रुमे । वसंतदत्यभिच्चैत्रे स्याज्जीवंत्यां तु योषितीति मेदिनी । विश्वप्रकाशोऽ प्येवम् । पंच जीवंत्याः "हर. णवेल, हरणदोडी इति ख्यातायाः।” कूर्चशीर्षः मधुरकः शृंगः म्हस्वांग: जीवकः पंच जीवकस्य ॥ १४२ ॥ किराततिक्तः “चिरतिक्तश्चिरातिक्तश्च । किरातश्चि. रतिक्तश्च भूनिंबहिमकावपीति रभसः। " भृनिंबः अनार्यतिक्तः त्रयं किराईत इति ख्यातस्य । सप्तला विमला शातला "सातला । विमला सातलायां स्यादिति वि. श्वप्रकाशः ।" भूरिफेना चर्मकषा पंच सप्तलायाः “ शिकेकाई इति प्रसिद्धायाः" ॥ १४३ ॥ वायसोली स्वादुरसा वयस्था त्रयं लहान कावळी, काकोली इति च ख्यातस्य । मकूलकः “ पृषोदरादित्वादुत्वे मुकूलको ऽपि" । निकुंभः दंतिका " देतिजा" प्रत्यक्श्रेणी उदंबरपर्णी “ उडुंबरपर्णी. ऊदुंबरपर्णी" पंच दंत्याः " दांती इति ख्यातायाः ।” यस्याः बीजं जेपाळ इति ख्यातम् ॥ १४४ ॥ अजमोदा उग्रगंधा ब्रह्मदर्भा यवानिका “ यमानिका" द्वे यवान्याः ओंवा इति ख्यातायाः । “ यवानीद्वयस्य द्वे द्वे नामनी इत्यपि मतम् ।” पुष्करं काश्मीरं पद्मपत्रं " पद्मवर्णमिति पाठः ।" त्रीणि पौष्करमूले पुष्करमोषधिविशेषस्तस्य मूले इत्यर्थः ॥ १४५ ॥ अव्यथा अतिचरा पद्मा चारटी पद्मचारिणी पंच उत्तरदेशे प्रसिद्धायाः पद्मचारिण्याः “ स्थलकमलिनी इति ख्यातायाः।" कांपिल्यः "कां. For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy