SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११० सटीकामरकोशस्य [वनौषधिवर्गः तपस्विनो जटामांसी जटिला लोमशा मिशी॥ त्वपत्रमुत्कटं शृंगं त्वचं चोचं वरांगकम् ॥ १३४॥ कर्चुरको द्राविडकः काल्पको वेधमुख्यकः ॥ ओषध्यो जातिमात्रे स्युरजातौ सर्वमौषधम् ॥ १३५॥ शाकाख्यं पत्रपुष्पादि तंडुलीयो ऽल्पमारिषः॥ विशल्यामिशिखानंता फलिनी शक्रपुष्पिका ॥ १३६ ॥ सादृक्षगंधा छगलांच्यावेगी वृद्धदारकः ॥ मसिः मषिः मषी मसी" पंच जटामांस्याः । जटेति पृथक्पदं वा । यदाह । मांसी कृष्णजटा हिंस्रा नलदा जटिला मिसिः । जटा च पिशिनी पेशी क्रव्यादी च तपस्विनीति । त्वक्पत्रं उत्कटं ,गं त्वचं चोचं वरांगकं षट् त्वक्पत्रस्य “दालचिनी" तज इति ख्यातस्य । त्वक्त्वचचोचशब्दाः स्युर्वल्के चर्मणि पत्रक इति धरणिः ॥ १३४ ॥ कर्चुरकः " कबूंरकः" द्राविडकः द्रविडदेशे जातः । तत्र जात इत्यण् । स्वार्थे कः । काल्पकः वेधमुख्यकः चत्वारि कचर इति ख्यातस्य हरिद्राभस्य । कल्पे भवः काल्पकः ओष्टयमध्यः । " तालव्यमध्यो ऽपि ।" ओषध्य इति फलपाकांतानां ब्रीह्यादीनां जातावेव ओषध्यः स्युः । ओषधिशब्दप्रयोगः स्यादित्यर्थः । बहुत्वविवक्षायां बहुवचनं न तु नित्यम् । यदा तु ओषधेः रोगहारित्वमात्रं प्रतीयते न त्वन्यत् तदा औषधशब्दप्रयोगः । ओषधेरजातावित्यण् । न केवलमोषधिरेवौषधशब्दवाच्या किंतु रोगहरत्वेन घृतक्षौद्रत्रिफलाकल्कादिचौषधमिति सर्वमिति विशेषणाज्ज्ञेयम् ॥ १३५॥ यत्पत्रपुष्पादि तच्छाकसंज्ञकं एकम् भोजनसाधनस्य पुष्पादेः । आदिना मूलादिग्रहः । उक्तं च । मूलपत्रकरीरामफलकांडाधिरूढकम् ॥ त्वक् पुष्पं कवचं चैव शाकं दशविधं स्मृतमिति । तत्र करीरं वंशांकुरः । कांडमिक्षुदंडादि । अधिरूढकं बीजांकुरः । कवचं छत्राकम् । शेषं स्पष्टम् । तंडुलीयः अल्पमारिषः द्वे तांदळी " तांदुळजा" इति ख्यातस्य । विशल्या अग्निशिखा अनंता फलिनी शक्रपुष्पिका पंचकमग्निशिखायाः " कळलावी इति ख्यातायाः" शक्रो ऽर्जुनतरुः तत्पुष्पमिव पुष्पं अस्याः शक्रपुष्पी ॥ १३६॥ ऋक्षगंधा "ऋष्यगंधा" छगलांत्री " छगलांघ्री छगलांडी छगलेति पृथक्पदं वा । For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy