SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. धमन्यंजनकेशी च हनुहविलासिनी ॥ शुक्तिः शंखः खुरः कोलदलं नसमथाढकी ॥१३०॥ काक्षी मृत्स्ना तुवरिका मृतालकसुराष्ट्रजे ॥ कुटनटं दाशपुरं वानेयं परिपेलवम् ॥ १३१॥ प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च ॥ ग्रंथिपर्ण शुकं बह पुष्पं स्थौणेयकुक्कुरे ॥१३२॥ मरुन्माला तु पिशुना स्टका देवी लता लघुः॥ समुद्रांता वधूः कोटिवर्षा लंकोपिकेयपि ॥१३३॥ " पवारीति लोके प्रसिद्धस्य । इयं उत्तरपथे प्रसिद्धा ।" हनुः हविलासिनी शु. क्तिः शंखः खुरः कोलदलं नखं “नखी" सप्त नखाख्यगंधद्रव्यस्य “नखला इति" ख्यातस्य । अत्र हनुरुदंतः स्त्रीसाहचर्यात् । बदरीतुल्यपत्रत्वात्कोलदलम् । आढकी ॥१३०॥काक्षी मृत्स्ना तुवरिका । “वार्षिका मूलिका तूवर्याढकी कुच्छुरा शटीति बोपालितात् तूवरिका ।" मृत्तालकं “ मृतालकं" सुराष्ट्रजं षट् तुवरिकायाः तर इति ख्यातायाः । कुटनटं दाशपुरं । दशपुरमिति दशपूरमिति दाशपू. रमिति च । दशपूरं दशपुरं प्लवनं जीविताव्हयमिति वाचस्पपिः ।" वानेयं परिपेलवम् ॥ १३१ ॥ प्लवं गोपुरं गोन कैवर्तीमुस्तकं “कैवर्तिमुस्तकं कैवर्तमुस्तकं” अष्टकं कैवर्तीमुस्तकस्य केवडी, “जलमुस्ता, क्षुद्रमोक्षा, मोथा" इति ख्यातस्य । ग्रंथिपर्णं शुकं । शुको व्याससुते कीरे रावणस्य च मंत्रिणि ॥ शिरीषपादपे पुंसि ग्रंथिपणे नपुंसकम् । बर्हपुष्पम् “शुकबहमित्येकमपि नाम | बर्हिपुष्पं बर्हिः पुष्पं बह पुष्पं चेति पृथगपि ।" स्थौणेयं कुक्करं पंच गंठीवन "भटोरा" इति ख्यातस्य ॥ १३२ ॥ मरुन्माला पिशुना स्पृका "पृषोदरादित्वात्सलोपे पृकापि" देवी लता लघुः समुद्रांता वधूः कोटिवर्षा लं. कोपिका दशकं पिंडकेति ख्यातायाः स्पृकायाः । अत्र मरुन्मालेति संघातविगृहीतम् । यदाह वाचस्पतिः । स्पृका तु ब्राह्मणी देवी मरुन्माला लता लघुः । समुद्रांता वधूः कोटिवर्षा लंकोपिका मरुत् । मुनिर्माल्यवती माला मोहना कुटिला लसेति ॥ १३३ ॥ तपस्विनी जटामांसी जटिला लोमशा मिशी "मिसि: मिषिः मिषी For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy