SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६० ____ अमरकोषे [१०. वैश्यवर्गः विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः १८७३ संख्यार्थे द्विबहुत्वे स्तस्तासु चानवतेः स्त्रियः १८७४ पतेः शतसहस्रादि क्रमादशगुणोत्तरम् १८७५ यौतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम् १८७६ मानं तुलाङ्गलिप्रस्थैर्गुञ्जाः पञ्चाद्यमाषकः १८७७ ते षोडशाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम् १८७८ सुवर्णबिस्तौ हेम्नोऽक्षे कुरुबिस्तस्तु तत्पले १८७९ तुला स्त्रियां पलशतं भारः स्यादिशतिस्तुलाः १८८० आचितो दश भाराः स्युः शाकटो भार आचितः १८८१ कार्षापणः कार्षिकः स्यात् कार्षिके ताम्रिके पणः १८८२ अस्त्रियामाढवद्रोणी खारी वाहो निकुञ्चकः १८८३ कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् १८८४ पादस्तुरीयो भागः स्यादंशभागौ तु वण्टके १८८५ एकाद्या अष्टादशान्ताः संख्याशब्दाः संख्येये वर्तमानास्त्रिषु । विंशत्याद्याः सर्वाः सदैकत्वे नित्यमेकवचनान्ताः संख्येये संख्यायां च वर्तन्ते । संख्यार्थे द्विबहुवचने स्तः । तासु नवतिपर्यन्ताः स्त्रियाम् । पतिर्दशसंख्या, तामारभ्य दशगुणं उत्तरं यत्रतादृशं संख्यानं कमात् शतम सहस्रम, इत्यादि स्यादित्येकैकम्।।-यौतवम् , दुवयम् , पाय्यम् , इति ३ मानार्थकस्य । तन्मानं तुलाहुलिप्रस्थैर्भिद्यते । पक्षगुञ्जाः आद्यमाषकः। ते षोडश माषा अक्षः, कर्षः, इति २ । कर्षचतुष्टयं पलं स्यात् १॥-सुवर्णः, बिस्तः, इति २ हेम्नः सुवर्णस्याक्षे । तस्य पले कुरुबिस्त इति १। पलानां शतं तुला स्यात् १ । स्त्रियाम् । विंशतिस्तुलाः भारः स्यात् १। दश भाराः आचित इति १। यः शाकटः सोऽप्याचित इति १॥कार्षापणः कार्षिकः, इति २ राजतकर्षपरिमितरूप्यकस्य । ताम्रिके तस्मि कार्षिके पण इति १।-आढकः, द्रोणः, खारी, वाहः, निकुञ्चकः, कुडवः, प्रस्थः, इति ७ परिमाणार्थकाः प्रत्येकं भिन्नार्थकाः। तुर्यो मागःपाद इति १॥अंशः, भागः, वण्टकः, इति ३ भागमात्रस्य । द्रव्यम् , वित्तम् , खापतेयम् , For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy