SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पङ्क्तयः १८४८- १८७२ ] द्वितीयं काण्डम् १५९ उष्ट्रोरभ्राजवृन्दे स्यादौष्ट्र कौरभ्रकाजकम् १८६० चक्रीवन्तस्तु वालेया रासभा गर्दभाः खराः १८६१ वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक १८६२ पण्याजीवो ह्यापणिकः क्रयविक्रयिकश्च सः १८६३ विक्रेता स्याद्विक्रयिकः क्रायिकक्रयिकौ समौ १८६४ वाणिज्यं तु वणिज्या स्यान्मूल्यं वस्नोऽप्यवक्रयः १८६५ नीवी परिपणो मूलधनं लाभोऽधिकं फलम् १८६६ परिदानं परीवर्तो नैमेयनिमयावपि १८६७ पुमानुपनिधिया॑सः प्रतिदानं तदर्पणम् १८६८ क्रये प्रसारितं क्रय्यं क्रेयं क्रेतव्यमात्रके १८६९ विक्रेयं पणितव्यं च पण्यं क्रय्यादयस्त्रिषु १८७० क्लीबे सत्यापनं सत्यंकारः सत्याकृतिः स्त्रियाम् १८७१ विपणो विक्रयः संख्याः संख्येये ह्यादश त्रिषु १८७२ वृष्णिः, एडकः, इति ७ मेषस्य । उष्ट्राणां वृन्दे औष्ट्रकम् १ । उरभ्राणां वृन्दे औरभ्रकम् १।अजानां वृन्दे आजकम् १॥-चक्रीवान् , बालेयः, रासभः, गर्दभः, खरः, इति ५ गर्दभस्य ॥--वैदेहकः, सार्थवाहः, नैगमः, वाणिजः, वणिक , पण्याजीवः, आपणिकः, क्रय विक्रयिकः, इति ८ क्रयविक्रयाभ्यां वर्तमानस्य ॥-विक्रेता, विक्रयिकः, इति २ वस्नपात्रादि दत्त्वा तन्मूल्यं गृह्णतः ॥-क्रायिकः, ऋयिकः, इति २ मूल्येन वस्त्रादि गृह्णतः॥ वाणिज्यम् , वणिज्या, इति २ वणिजां कर्मणि ॥-मूल्यम् , वस्नः, अवक्रयः, इति ३ विक्रेयवस्तूनां मूल्यस्य ॥-नीवी, परिपणः, मूलधनम्, इति ३ क्रयवि. क्रयादिव्यवहारे यन्मूलधनं तस्य । मूलधनादधिकं फलं लाभः स्यात॥परिदानम् , परीवर्तः, नैमेयः, निमयः, इति ४ परिवर्तनस्य ॥--उपनिधिः, न्यासः, इति २ निक्षेपस्य । उपनिधिः पुंसि । तस्य अर्पणं प्रतिदानमित्युच्यते १। कये प्रसारितं क्रय्यमिति १ । यत् क्रेतव्यमानं तत् केयम् १॥-विक्रेयम् , पणितव्यम् , पण्यम् , इति ३ विकेयस्य वस्तुनः। त्रिषु ॥ सत्यापनम् , सत्यंकारः, सत्याकृतिः, इति ३ सत्यंकारस्य ॥-विपणः, विक्रयः, इति २ विक्रयस्य। For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy