SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पङ्क्तयः १४८८-१५१४ ] द्वितीयं काण्डम् अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि स्वाम्यमात्य सुहृत्कोशरा प्रदुर्गबलानि च राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः षङ्गणाः शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम् भेदो दण्डः साम दानमित्युपायचतुष्टयम् साहसं तु दमो दण्डः साम सान्त्वमथो समौ भेदोपजापापधा धर्माद्यैर्यत्परीक्षणम् पञ्च त्रिष्वपक्षीणो यस्तृतीयाद्यगोचरः विविक्तविजनच्छन्ननिःशलाकास्तथा रहः रोपांशु चालि रहस्यं तद्भवे त्रिषु समौ विस्रम्भविश्वास पो भ्रंशो यथोचितात् , १३१ For Private and Personal Use Only १५०१ १५०२ १५०३ अध्वन्यः, पान्थः, पथिकः, इति ५ पान्थस्य ॥ - स्वामी, अमात्यः, सुहृत्, कोशः, राष्ट्रम, दुर्गम्, बलम् इति ७ राज्याङ्गानि एतान्येव प्रकृतिशब्दवाच्यानि । पौराणां श्रेणयोऽपि प्रकृतयः स्युः इति २ । संधिः, विग्रहः, यानम्, आसनम्, द्वैधम्, आश्रयः, इति षट्गुणाः १ ॥ - प्रभावः, उत्साहः, मन्त्रजः, इति तिस्रः शक्तयः १ । क्षयः, स्थानम्, वृद्धि:, इति ३ नीतिवेदिनां त्रिवर्गः १ । कोशदण्डतेजोभ्यो जातः प्रतापः, प्रभावः, इति २ ॥ - -भेदः, दण्डः, साम, दानम्, इति ४ उपायच तुष्टयम् ॥ - साहसम्, दमः, दण्डः, इति ३ दण्डस्य ॥ - साम, सान्त्वम्, इति २ साम्नः॥ - मेदः, उपजापः, इति २ संहतयोद्वैधीकरणस्य । धर्मार्थकामैः भयेन च परीक्षणं सा उपधा स्यात् १ । अथाषडक्षीगादिनिःश : शलाकान्ताः पञ्च शब्दास्त्रिषु वाच्यलिङ्गाः । यस्तृतीयाद्यगोचरो मन्त्रादिः स अषडक्षीण इति ॥ विविक्तः, विजनः, छन्नः, निःशलाकः, रहः, रहः, उपांशु, इति ७ विजनस्य १ ॥ रहः उपांशु, इति द्वे अलिङ्गे अव्यये । तद्भवे रहो भवे रहस्य मिति १ । त्रिषु ॥ - विस्रम्भः, विश्वासः, इति २ विश्वासस्य । यथोचिताशः पतनं द्वेष इति १ ॥ १५०४ १५०५ १५०६ १५०७ १५०८ १५०९ १५१० १५११ १५१२ १५१३ १५१४
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy