SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२ भमरकोपे [९. क्षत्रियवर्गः अभ्रेषन्यायकल्पास्तु देशरूपं समञ्जसम् १५१५ युक्तमौपयिकं लभ्यं भजमानाभिनीतवत् १५१६ न्याय्यं च त्रिषु षट् संप्रधारणा तु समर्थनम् १५१७ अववादस्तु निर्देशो निदेशः शासनं च सः १५१८ शिष्टिश्चाज्ञा च संस्था तु मर्यादा धारणा स्थितिः १५१९ आगोऽपराधो मन्तुश्च समे तुद्दानबन्धने १५२० द्विपाद्यो द्विगुणो दण्डो भागधेयः करो बलिः १५२१ घट्टादिदेयं शुल्कोऽस्त्री प्राभृतं तु प्रदेशनम् १५२२ उपायनमुपग्राह्यमुपहारस्तथोपदा १५२३ यौतकादि तु यदेयं सुदायो हरणं च तत् १५२४ तत्कालस्तु तदात्वं स्यादुत्तरः काल आयतिः १५२५ सांदृष्टिकं फलं सद्य उदः फलमुत्तरम् १५२६ अदृष्टं वह्नितोयादि दृष्टं स्वपरचक्रजम् १५२७ अभ्रेषः, न्यायः, कल्पः, देशरूपम् , समञ्जसम् , इति ५ नीतेः ॥--युक्तम् , औपयिकम् , लभ्यम् , भजमानम् , अभिनीतम् , न्याय्यम् , इति ६ न्यायादनपेतस्य द्रव्यादेः। एते षडपि त्रिषु ॥-संप्रधारणा, समर्थनम् , इति २ युक्तायुक्तपरीक्षायाः॥-अववादः, निर्देशः, निदेशः, शासनम् , शिष्टिः, आज्ञा, इति ६ कर्माज्ञापनस्य ॥-संस्था, मर्यादा, धारणा, स्थितिः, इति ४ न्याय्यमार्गस्थितेः।-आगः, अपराधः, मन्तुः, इति ३ अपराधस्य । आगः सान्तम् ।।-उद्दानम् , बन्धनम् , इति २ बन्धनस्य । द्विगुणो दण्डो द्विपाद्यः स्यात् १॥-भागधेयः, करः, बलिः, इति ३ कर्षकादिभ्यो राजग्राह्यभागस्य । नेतण्यानेतव्यसंबन्धी राजग्राह्यो भागः शुल्कः स्यात् १ ॥प्राभृतम् , प्रदेशनम्, उपायनम् , उपग्राह्यम् , उपहारः, उपदा, इति ६ उपायनस्य। यौतकादि बन्धुदेयादि, यद्देयं तत्सुदायः, हरणम् , इति २ ॥ तत्कालः, तदात्वम् , इति २ वर्तमानकालस्य । उत्तर आगामी काल आयतिः स्यात् । यत्सद्यः फलं तत्सांदृष्टिकमिति १॥ उत्तर भावि फलं उदर्कः स्यात् १। वह्नितोयमतिवृष्ट्यादिकृतं यद्यं तत् अष्टमिति ११ खपरराष्ट्रजन्यं यद्भयं तत् दृष्टम् । For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy