SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३० अमरकोषे [ ९. क्षत्रियवर्गः रिपौ वैरिसपत्नारिद्विषद्वेषणदुहृदः १४८८ द्विडिपक्षाहितामित्रदस्युशात्रवशत्रवः १४८९ अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः १४९० वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत् १४९१ सख्यं साप्तपदीनं स्यादनुरोधोऽनुवर्तनम् १४९२ यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः १४९३ चारश्च गूढपुरुषश्चाप्तप्रत्ययितौ समो १४९४ सांवत्सरो ज्योतिषिको दैवज्ञगणकावपि १४९५ स्युौहूर्तिकमौहूर्तज्ञानिकाान्तिका अपि १४९६ तान्त्रिको ज्ञातसिद्धान्तः सत्री गृहपतिः समो १४९७ लिपिकारोऽक्षरचणोऽक्षरचुञ्चुश्च लेखके १४९८ लिखिताक्षरविन्यासे लिपिलिबिरुभे स्त्रियौ १४९९ स्यात्संदेशहरो दृतो दूत्यं तद्भावकर्मणी रिपुः, वैरी, सपत्नः, अरिः, द्विषन् , द्वेषणः, दुहृद्, द्विद , विपक्षः, अहितः, अमित्रः, दस्युः,शात्रवः,शत्रुः,अभिघाती, परः, अरातिः, प्रत्यर्थी, परिपन्थी, इति १९ शत्रोः ॥-वयस्यः, स्निग्धः, सवयाः, इति ३ तुल्यवयसः प्रियस्य ॥-मित्रम् , सखा, सुहृत् , इति ३ मित्रस्य॥-सख्यम् , साप्तपदीनम् , इति २ मैत्र्याः ॥-अनुरोधः, अनुवर्तनम्, इति २ आनुकूल्यस्य ॥-- यथार्हवर्णः, प्रणिधिः, अपसर्पः, चरः, स्पशः, चारः, गूढपुरुषः, इति ७ घारपुरुषस्य ॥-आप्तः, प्रत्ययितः, इति २ विसंवादरहितस्य ॥-सांवत्सरः, ज्योतिषिकः, दैवज्ञः, गणकः, मौहूर्तिकः, मौहूर्तः, ज्ञानी, कार्तान्तिकः, इति ८ ज्योतिषिकस्य ॥-तान्त्रिकः, ज्ञातसिद्धान्तः, इति २ शास्त्रवेत्तुः ॥ सत्री, गृहपतिः, इति २ गृहपतिनः ॥लिपिकारः, अक्षरचणः, अक्षरचुच्चः, लेखकः, इति ४ लेखकस्य ।।-लिखितम् , अक्षरविन्यासः, लिपिः, लिबिः, इति ४ लिखिताक्षरस्य ॥-संदेशहरः, दूतः, इति २ संदेशहरस्य। तद्भावे कर्मणि च दूत्यमिति १॥-अध्वनीनः, अध्वगः, For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy