SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११२ अमरकोपे [७. मनुष्यवर्गः १२६६ चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः १२६४ तद्वन्दे कैशिकं कैश्यमलकाचूर्णकुन्तलाः १२६५ ते ललाटे भ्रमरकाः काकपक्षः शिखण्डकः कवरी केशवेशोऽथ धम्मिल्लः संयताः कचाः १२६७ शिखा चूडा केशपाशी व्रतिनस्तु सटा जटा १२६८ वेणिः प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे १२६९ पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे १२७० तनूरुहं रोम लोम तद्वद्धौ श्मश्रु पुंमुखे १२७१ आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम् १२७२ दशैते विष्वलंकर्ताऽलंकरिष्णुश्च मण्डितः १२७३ प्रसाधितोऽलंकृतश्च भूषितश्च परिष्कृतः १२७४ विभ्राड् भ्राजिष्णुरोचिष्णू भूषणं स्यादलंक्रिया १२७५ मस्तकः, पुंसि क्लीबे च ॥-चिकुरः, कुन्तलः, वालः, कचः, केशः शिरोरुहः, इति ६ केशस्य ॥-कैशिकम् , कैश्यम् , इति २ केशानां समूहे ॥अलकाः, चूर्णकुन्तलाः, इति २ कुटिलकेशानाम् । ते अलकाः ललाटे लम्बमाना भ्रमरकाः स्युः॥-काकपक्षः,शिखण्डकः, इति २ कुमारचूडायाः॥कबरी, केशवेशः, इति २ केशवन्धरचनायाः। कबरी स्त्री। संयता बद्धाः कचाः केशसमूहो धम्मिल्ल इति १ ॥-शिखा, चूडा, केशपाशी, इति ३ शिखायाः ॥-सटा, जटा, इति २ वतिनः शिखायाम् ॥-वेणिः, प्रवेणी, इति २ सर्पाकाररचितकेशवेशस्य॥-शीर्षण्यः, शिरस्यः, इति २ विशदे निर्मले केशे ॥ तेन कचपर्यायात्परे पाशादयस्त्रयः कलापार्थाः केशसमूहवाचिन:-कचपाशः, केशपक्षः, कुन्तलहस्तः, इति२॥-तनूरुहम् , रोम, लोम, इति ३ रोम्णः ॥-पुंमुखे पुंसो वके तस्य रोम्णो वृद्वौ सत्यां तद्रोम श्मश्रु स्यात् ।।-आकल्पः, वेषः,नेपथ्यम्, प्रतिकर्म, प्रसाधनम् , इति ५ अलंकृतस्य शोभायाम् । प्रतिकर्मादिद्वयमलंकरणस्य । एते अलंकादयः वक्ष्यमाणा दश शब्दास्त्रिषु वाच्यलिङ्गाः।-अलंकर्ता,अलकरिष्णुः इति रअलंकर्तरि॥-मण्डितः, प्रसाधितः, अलंकृतः, भूषितः, परिष्कृतः, इति ५ अलंकृतस्य ॥-विभ्राट्, भ्राजिष्णुः, रोचिष्णुः, इति ३ अतिशयेन For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy