SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पतयः १२४०-१२६३] द्वितीयं काण्डम् क्लीवे घ्राणं गन्धवहा घोणा नासा च नासिका १२५२ ओष्ठाधरौ तु रदनच्छदौ दशनवाससी १२५३ अधस्ताच्चिबुकं गण्डौ कपोलौ तत्परा हनुः १२५४ रदना दशना दन्ता रदास्तालु तु काकुदम् १२५५ रसज्ञा रसना जिह्वा प्रान्तावोष्ठस्य सूक्विणी १२५६ ललाटमलिकं गोधिरूचे दृग्भ्यां ध्रुवौ स्त्रियौ १२५७ कूर्चमस्त्री भ्रुवोर्मध्यं तारकाऽक्ष्णः कनीनिका १२५८ लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी १२५९ दृग्दृष्टी चासु नेत्राम्बु रोदनं चास्रमश्रु च १२६० अपाङ्गो नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने १२६१ कर्णशब्दग्रही श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः १२६२ उत्तमाङ्गं शिरः शीर्ष मूर्धा ना मस्तकोऽस्त्रियाम् १२६३ तुण्डम् ,आननम् , लपनम् , मुखम् , इति ७ मुखस्य ॥–घ्राणम् , गन्धवहा,घोणा, नासा, नासिका, इति ५ नासिकायाः ॥-ओष्टः, अधरः, रदनच्छदः, दशनवासः, इति ४ ओष्ठस्य ॥-चिबुकमित्येकं अधस्तात् अधराधोभागे ॥गण्डः, कपोलः, इति २ कपोलस्य ॥ ताभ्यां कपोलाभ्यां परा चिबुकस्याधो हनुरिति १। रदनः, दशनः, दन्तः, रदः, इति ४ दन्तस्य ॥-तालु, काकुदम्, इति २ तालनः ॥-रसज्ञा, रसना, जिह्वा, इति ३ जिह्वायाः प्रान्तावित्योष्ठद्वयस्य वामदक्षिणी प्रान्तौ सृकिणी स्याताम् ॥-ललाटम, अलिकम् , गोधिः, इति ३ भालस्य॥-दृग्भ्यामूर्श्वभागौ भ्रवौ इति १। नासोपरि भ्रुवोर्मध्ये कूर्च इलेकम् । अशः कनीनिकामध्यगतकृष्णमण्डलं तारकेत्युच्यते इति १॥लोचनम्, नयनम् , नेत्रम् , ईक्षणम्, चक्षुः, अक्षि, दृक् , दृष्टिः, इति ८ नेत्रस्य ॥-अनु, नेत्राम्बु, रोदनम् , अस्रम् , अश्रु, इति ५ नेत्रोदकस्य-नेत्रयोरन्तौ अपाङ्गौ इति १। अपाङ्ग्रेन दर्शने चेष्टायो कटाक्ष इत्युच्यते १। कर्णः, शब्दग्रहः, श्रोत्रम्, श्रुतिः, श्रवणम् , श्रवः, इति ६ कर्णस्य । तत्र श्रुतिः स्त्रियाम् ॥उत्तमाङ्गम् , शिरः, शीर्षम् , मूर्धा, मस्तकः, इति ५शिरसः । मूर्धा ना पुमान् । For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy