SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरकोषे सहस्रदंष्ट्रः पाठीन उलूपी शिशुकः समौ नलमीनश्चिलिचिमः प्रोष्ठी तु शफरी द्वयोः क्षुद्राण्डमत्स्यसंघातः पोताधानमथो झपाः रोहितो मद्गुरः शालो राजीवः शकुलस्तिमिः तिमिंगिलादयश्चाथ यादांसि जलजन्तवः तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः स्यात्कुलीरः कर्कटकः कूर्मे कमटकच्छपी ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता गण्डूपदः किंचुलको निहाका गोधिका समे रक्तपा तु जलौकायां स्त्रियां भूम्नि जलौकसः मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियों क्षुद्रशङ्खाः शङ्खनखाः शम्बूका जलशुक्तयः , [ १३. वारिवर्गः ५०२ ५०३ २०४ मत्स्यस्य ॥ - गडकः, शकुलार्भकः इति २ मत्स्यविशेषस्य ॥ - सहस्रदंष्ट्रः, पाठीन:, इति २ बहुदंष्ट्रस्य मत्स्यविशेषस्य ||---उलूपी, शिशुकः, इति २ शिशुमाराकारमत्स्यस्य ॥ नलमीनः, चिलिचिमः, इति २ जलतृणचारिमत्स्यविशेषस्य ॥ - प्रोष्टी, शफरी, इति २ शुभ्रमत्स्यविशे षस्य ॥ क्षुद्राश्च ते अण्डमत्स्याश्च तेषां संघातः पोताधानमुच्यते ॥ अथो झषा मत्स्यविशेषाः वक्ष्यन्ते, नतु पर्यायाः -- रोहितः, मद्गुरः, शालः, राजीवः, शकुलः, तिमिः, तिमिंगिलः, 'आदि' शब्दात् नन्यावतादयोऽन्ये ॥ - यादांसि, जलजन्तवः इति २ जलचरमात्रस्य ॥ - तद्भेदा जलजन्तूनां विशेषाः -- शिशुमारः, उद्रः, शङ्कुः, मकरः।‘आदि शब्दात् जलहस्त्यादयः ॥ - कुलीरः, कर्कटकः, इति २ कर्कटस्य ॥ - कूर्मः, कमठः, कच्छप:, इति ३ कूर्मस्य ॥ -- ग्राहः, अवहारः, इति २ ग्राहस्य ॥ -- नक्रः, कुम्भीरः, इति २ नक्रस्य ॥ महीलता, गण्डूपदः, किंचुलकः, इति ३ जलचरभेदस्य ॥ -- निहाका, गोधिका, इति २ जलगोधिकायाः ॥ -- रक्तपा, जलौका, जलौकसः, इति ३ जलौकायाः ॥ मुक्तास्फोटः, शुक्तिः, इति २ शुक्तिकायाः ॥ - शङ्खः, कम्बुः, इति २ शङ्खस्य ॥ क्षुद्रशङ्खाः शङ्खनखाः, इति २ सूक्ष्मशङ्खानाम् ॥ -- जलशुक्त यो For Private and Personal Use Only ५०५ ५०६ ५०७ ૬૦૮ ५०९ '११० ५११ ५१२ ५१३
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy