SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२२ पतयः ५०२-५२४] प्रथम काण्डम् ४९ भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः ५१४ शिली गण्डूपदी भेकी वर्षाभ्वी कमठी डुलिः ५१५ मद्गुरस्य प्रिया शृङ्गी दुर्नामा दीर्घकोशिका ५१६ जलाशयो जलाधारस्तत्रागाधजलो हृदः ५१७ आहावस्तु निपानं स्यादुपकूपजलाशये । ५१८ पुंस्येवान्धुः प्रहिः कूप उदपानं तु पुंसि वा ५१९ नेमिस्त्रिकाऽस्य वीनाहो मुखबन्धनमस्य यत् ५२० पुष्करिण्यां तु खातं स्यादखातं देवखातकम् ५२१ पद्माकरस्तडागोऽस्त्री कासारः सरसी सरः वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका ५२३ खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम् ५२४ जलमात्रजाः शुक्तयः शम्बूका उच्यन्ते ॥ भेकः, मण्डूकः, वर्षाभूः, शालूरः, सवः, दर्दुरः, इति ६ मेकस्य ॥-शिली, गण्डपदी, इति २ स्वल्पगण्डूपदजातेः ॥-मेकी, वर्षाभ्वी, इति २ क्षुद्रभेकजातेः ॥-कमठी, डुलिः, इति २ काः ॥--मद्गुराख्यस्य मत्स्यावशेषस्य प्रिया स्त्री शृङ्गीत्युच्यते ॥-- दुर्नामा, दीर्घकोशिका, इति २ जलूकाकारस्य जलचरविशेषस्य ॥-जलाशयः, जलाधारः इति २ तडागादीनाम् ।।-अगाधमतलस्पर्श जलं यस्य स जलाशयो हद उच्यते ॥-उपकूप जलाशये कृपसमीपे यो जलाशयः कूपोद्धृताम्बुस्थापनीयशिलादिरचितो गर्तः, यत्रत्यं जलं सुखेन गावः पिवन्ति, तत्र आहावः, निपानम् , इति ॥-अन्धुः, प्रहिः, कूपः, उदपानम् , इति ४ कृपस्य। तत्र 'उदपानं' पुंसि वा॥-अस्य कूपम्य नेमिरन्ते रज्वादिधारणार्थ दास्यत्रं सा त्रिका ॥-अस्य कूपस्य पाषणादिमियन्मुखनिवन्धनं स वीनाह उच्यते ॥-पुष्करिणी, खातम्, इति २ पुष्करिण्याः ॥-अखातम् , देवखातकम्, इति २ अकृत्रिमखातस्य ॥-पद्माकरः, तडागः, कासारः, सरसी, सरः, इति ५ तडागस्य ॥वेशन्तः,परम् , अल्पसरः, इति ३ स्वल्पसरसः ।।-वापी, दीर्घिका, इति २ वाप्याः ॥.-खेयम्, परिखा, इति २ दुर्गाद्वहिर्यत्परितः खातं क्रियते तस्य ॥-यत्र अम्भसां धारणं क्षेत्रादिसेकार्थ जलानां संग्रहणं स आधार म. को. स. ४ For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy