SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४४ Acharya Shri Kailassagarsuri Gyanmandir अमरकोषे समौ निर्मोक वेडस्तु गरलं विषम् पुंसि क्लीवे च काकोलकालकूटहलाहलाः सौराष्ट्रकः शौक्लियो ब्रह्मपुत्रः प्रदीपनः दारदो वत्सनाभश्च विषभेदा अमी नव विषवैद्यो जाङ्गुलिको व्यालग्राह्य हितुण्डिकः १२. नरकवर्ग: स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् तद्भेदास्तपना वीचिमहारौरवरौरवाः संघातः कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निर्ऋतिः विष्टिराजूः कारणा तु यातना तीव्र वेदना पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम् स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत् [ १२. नरकवर्गः ४५६ ४५७ ४५८ ४५९ ४६० ४६१ ४६२ ४६३ ४६४ ४६५ ४६६ ४६७ , कबुकः, निर्मोकः, इति २ सर्पत्वचः ॥ क्ष्वेडः, गरलम्, विषम् इति ३ विषमात्रस्य ॥ - काकोलः, कालकूटः, हलाहलः, सांराष्ट्रिकः, शौक्लिकेयः, ब्रह्मपुत्रः, प्रदीपनः, दारदः, वत्सनाभः इति ९ स्थावरविषभेदाः ॥ - विषवैद्यः, जाङ्गुलिकः, इति २ विपहरवैद्यस्य ॥ व्यालग्राही, अहितुण्डिकः, इति २ सर्पग्राहिणः ॥ For Private and Personal Use Only ४६१-४६७. नारकः, नरकः, निरयः, दुर्गतिः, इति नरकस्य ॥ - तपनः, अवीचिः, महारौरवः, रौरवः, संघातः, कालसूत्रम्, इत्याद्या नरकभेदाः । आद्यशब्दात् तामिस्रकुम्भीपाकादयः ॥ - नारका नरके भवाः सत्त्वाः प्राणिनः प्रेता उच्यन्ते ॥ - - नारकी सिन्धुर्नदी वैतरणी ज्ञेया ॥ - नारक्यलक्ष्मीरशोभा निर्ऋतिरुच्यते ॥ विष्टिः, आजूः, इति २ नरके हठात्प्रक्षेपस्य ॥ - कारण, यातना, तीव्रवेदना, इति ३ नरकपीडायाः ॥ - पीडा, बाधा, व्यथा, दुःखम्, आमनस्यम्, प्रसूतिजम्, कष्टम्, कृच्छ्रम्, आभीलम् इति ९ दुःखस्य । एषां मध्ये यद्दुःखादिकं भेद्यगामि विशेष्यवृत्ति तत्रिषु । यथा - 'सेयं सेवा दुःखा च बहुरूपा', 'सोऽयं दुःखसुतोऽगुणः', 'सर्वं दुःखं विवेकिनः' इति ॥ ,
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy