SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमं काण्डम् पङ्कयः ४३४-४५५ ] विष्वक् संतमसं नागाः काद्रवेयास्तदीश्वरः शेषोऽनन्तो वासुकिस्तु सर्पराजोऽथ गोनसे तिलित्सः स्यादजगरे शयुर्वाहस इत्युभी अलगर्दो जलव्यालः समौ राजिलडुण्डुभौ मालुधानो मातुलाहिर्निर्मुक्तो मुक्तकञ्चुकः सर्पः वृदाकुर्भुजगो भुजंगोऽहिर्भुजंगमः आशीविषो विषधरश्चक्री व्यालः सरीसृपः कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः उरगः पन्नगो भोगी जिह्मगः पवनाशनः 'लेलिहानो द्विरसनो गोकर्णः कञ्जुकी तथा कुम्भीनसः फणधरो हरिर्भोगधरस्तथा अहेः शरीरं भोगः स्यादाशी रप्य हिदंष्ट्रिका' त्रिपाहेयं विषास्थ्यादि स्फटायां तु फणा द्वयोः ४३ For Private and Personal Use Only ४४५ ४४६ ४४७ ४४८ ४४९ ४५० ४५१ ४५२ ४५३ ४५४ *** ** ४५५ मसमुच्यते॥-नागाः, काद्रवेयाः, इति २ नागानाम् ॥-तदीश्वरो नागानामीशः, शेषः, अनन्तः, इति चोच्यते ॥ - वासुकिः, सर्पराजः, इति २ नागराजस्य ॥गोनसः, तिलित्सः, इति २ गोनसस्य ॥ - अजगरः, शयुः, वाहसः, इति ३ अजगरस्य ॥ - अलगर्दः, जलव्यालः, इति २ जलसर्पस्य ॥ --राजिलः, डुण्डुभः, इति २ निर्विषस्य द्विमुख सर्पस्य ॥ - मालुधानः, मातुला हिः, इति २ खड्डाकारचित्रसर्पस्य ॥ - निर्मुक्तः, मुक्तकटुकः, इति २ त्यक्तकचुकस्य ॥ - सर्पः, पृदाकुः, भुजगः, भुजंगः, अहिः, भुजङ्गमः, आशीविषः, विषधरः, चक्री, व्यालः सरीसृपः, कुण्डली, गूढपात्, चक्षुःश्रवाः, काकोदरः, फणी, दवकरः, दीर्घपृष्ठः, दन्दशूकः, बिलेशयः, उरगः, पन्नगः, भोगी, जिह्मगः, पवनाशनः, इति २५ सर्पस्य ॥ -यद्विषास्थ्यादि व्यहिभवं तत् आहेयमुच्यते ॥ -- स्फटा फणा, इति २ फणायाः । द्वे अपि स्त्रीपुंसयोः ॥
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy