SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१२ २१३ २१४ २१५ पतयः २०३-२२० ] प्रथमं काण्डम् स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविधुतिदीप्तयः रोचिः शोचिरुभे क्लीवे प्रकाशो द्योत आतपः कोणं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका ७. कालवर्गः कालो दिष्टोऽप्यनेहापि समयोऽप्यथ पक्षतिः प्रतिपवे इमे स्त्रीत्वे तदाद्यास्तिथयो द्वयोः घस्रो दिनाहनी वा तु क्लीबे दिवसवासरौ प्रत्यूपोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि 'व्युष्टं विभातं द्वे क्लीवे पुंसि गोसर्ग इष्यते' प्रभातं च दिनान्ते तु सायं संध्या पितृप्रसूः २१६ २१७ २१८ २१९ ** २२० सचिः, विद , भा, भाः, छविः, द्युतिः, दीप्तिः, रोचिः, शोचिः, इति ११ प्रभामात्रस्य । तत्र दीप्यन्तानि स्त्रियां स्युः । 'रोचिः' 'शोचिः' सान्ते क्लीबे । 'भाः' सान्तः।।---प्रकाशः, द्योतः, आतपः, इति ३ सूर्यप्रभायाः।।-कोष्णम् ,कवोणम् , मन्दोणम् , कदुष्णम् , इति ४ ईषदुष्णे । इदं धर्ममात्रे रूपभेदात् क्लीबे। तद्वति धर्मिणि त्रियु वाच्यलिङ्गमित्यर्थः ॥-तिग्मम् , तीक्ष्णम् , खरम्, इति ३ अत्युष्णस्य । तद्वत्-कोष्णवत् । धर्मे क्लीबम् । धर्मिणि त्रिपु॥-मृगतृष्णा, मरीचिका, इति २ मृगजलस्य-मरुदेशादौ सिकतासु प्रतिच्छुरिताः सूर्यकिरणा जलाकारेण भान्ति तस्य; जलाभासस्यत्यर्थः ॥ २१६-२७७. कालः, दिष्टः, अनेहा, समयः, इति ४ कालस्य । अनेहाः सान्तः ॥-पक्षतिः, प्रतिपत् , इमे २ प्रथमतिथेः ॥-तदाद्याः प्रतिपदाद्याः तिथय इत्युच्यन्ते । 'तिथि'शब्दो द्वयोः स्त्री-पुंसयोः ॥-घस्रः, दिनम् , अहः, दिवसः, वासरः, इति ५ दिवसस्य । तत्र 'दिवसवासरौ' क्लीब-पुंसोः॥-प्रत्यूषः, अहर्मुखम् , कल्यम् , उषः, प्रत्युषः, प्रभातम्, इति ६ प्रभातस्य। तंत्र प्रत्युषः अदन्तः पुंसि क्लीबे च ॥-दिनान्तः, सायं, संध्या, पितृप्रसूः, इति ४ For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy