SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ अमरकोषे [७. कालवर्गः २२१ २२३ २२६ रात्रं निशानाहयुक्तायां न चन्द्रिका in प्राहापराह्नमध्याह्नास्त्रिसंध्यमथ शर्वरी निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा २२२ विभावरीतमस्विन्यौ रजनी यामिनी तमी तमिस्रा तामसी रात्रिज्योत्स्त्री चन्द्रिकयान्विता २२४ आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी २२५ गणरात्रं निशा बह्वयः प्रदोषो रजनीमुखम् अर्धरात्रनिशीथौ द्वौ द्वौ यामप्रहरौ समौ २२७ स पर्वसंधिः प्रतिपत्पश्चदश्योर्यदन्तरम् २२८ पक्षान्तौ पञ्चदश्यौ द्वे पोर्णमासी तु पूर्णिमा २२९ कलाहीने सानुमतिः पूर्णे राका निशाकरे २३० अमावास्या त्वमावस्या दर्शः सूर्येन्दुसंगमः २३१ सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः दिनान्ते। तत्र 'सायम्' इत्यव्ययं नपुंभकलिङ्गं वा। प्राह्नः, अपराह्नः, मध्याह्नः, इति समाहृताः त्रिसंध्यं ज्ञेयम् ॥ शर्वरी, निशा, निशीथिनी, रात्रिः, त्रियामा, क्षणदा, क्षपा, विभावरी, तमस्विनी, रजनी, यामिनी, तमी, इति १२ निशायाः ॥-या तामसी तमोयुक्ता रात्रिः सा तमिस्रा ॥-या चन्द्रिकया चन्द्रप्रकाशेनान्विता युक्ता रात्रिः सा ज्योत्स्नी ॥-आगामिवर्तमानाहर्युक्तायां पूर्वापरदिनाभ्यां युक्तायां निशि रात्री पक्षिणी ॥ बढयो निशाः गणरात्रं स्यात् , इति १ रात्रिसमुदायस्य ।।-प्रदोषः, रजनीमुखम् . इति २ रात्रेः पूर्वभागस्य ।।-अर्धरात्रः, निशीथ , इति २ रात्रिमध्यसमयस्य ॥-यामः, प्रहरः, इति २ अहो. रात्राष्टमांशस्य॥-प्रतिपत्पञ्चदश्योर्यदन्तरं स संधिः पर्वेत्यन्वयः।-द्वे अमापूर्णिमे । पक्षान्ती, पञ्चदश्यौ, इति २ पक्षान्ततिथ्योः । द्वित्वात् द्विवचनम्। न तु नित्यम् ॥-पौर्णमासी, पूर्णिमा, इति २ शुक्लपक्षान्त्यतिथौ ॥-सा पू. र्णिमा कलाहीने चन्द्रे सति अनुमतिरित्युच्यते इति १॥-सव पूर्णिमाणे निशाकरे सति राका इति १ ॥-अमावास्या, अमावस्या, दर्शः, सूर्येन्दुसंगमः, इति ४ कृष्णपक्षान्त्यतिथेः॥-सा अमावास्या दृष्टेन्दुश्चेत् दृष्ट इन्दुर्यस्यां सा सिनीवाली For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy