SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २० www.kobatirth.org अमरकोषे , Acharya Shri Kailassagarsuri Gyanmandir विकर्तनार्कमार्तण्डमिहिरारुणपूषणः घुमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः विभावसुग्रहपतिस्त्विषांपतिरहपतिः भानुर्हसः सहस्रांशुस्तपनः सविता रविः 'पद्माक्षस्तेजसां राशिश्छायानाथस्तमिस्रहा कर्मसाक्षी जगच्च बन्धुत्रयीतनुः प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः इनो भगो धामनिधिश्वांशुमाल्यब्जिनीपतिः' माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्वकाः सूरसूतोऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः परिवेषस्तु परिधिरुपसूर्यकमण्डले किरणोत्रमयूखांशुगभस्तिघृणिरश्मयः भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम् [ ६ दिग्वर्गः For Private and Personal Use Only २०३ २०४ २.५ २०६ ** उष्णरश्मिः, विकर्तनः, अर्कः, मार्तण्डः, मिहिरः, अरुणः, पूषा, धुमणिः, तरणिः, मित्रः, चित्रभानुः, विरोचनः, विभावसुः, ग्रहपतिः, त्विषांपतिः, अहर्पतिः, भानुः, हंसः, सहस्रांशुः, तपनः, सविता, रविः, इति ३७ सूर्यस्य ॥ माठरः, पिङ्गल., दण्डः, इति ३ चण्डांशोः पारिपार्श्विकाः = परितः पार्श्वे विद्यमानाः । ('शक्रोऽस्य वामपार्श्वे तु दण्डाख्यो दण्डनायकः । वह्निस्तु दक्षिणे पार्श्वे पिङ्गलो - वामभागतः । यमोऽपि दक्षिणे पार्श्वे भवेन्माठरसंज्ञया' ) ॥ सूरसूतः, अरुणः, अनूरुः, काश्यपिः, गरुडाग्रजः, इति ५ अरुणस्य ॥ परिवेषः, परिधिः, उपसूर्यकम् मण्डलम् इति ४ परिवेषस्य ॥सूर्यमभित कदाचिदृश्यमानस्य कुण्डलाकार तेजोविशेषस्य । ' परिवेष' साहचर्यात् 'परिधि:' पुंसि ज्ञेयः ॥किरण:, उस्रः, मयूखः, अंशुः, गभस्तिः, घृणिः, रश्मिः, भानुः, करः, मरीचिः, दीधितिः, इति ११ किरणस्य ॥ मरीचिः स्त्री-पुंसयोः । 'दीधितिः' स्त्रियाम् । 'खियाम्' इत्यस्य काकाक्षिगोलकन्यायेनोत्तर श्लोकेऽप्यन्वयः ॥ -- प्रभा, रुकु **** ** ** २०७ २०८ २०९ २१० २११
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy