SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ 26 J किंच— तथाहि जाताऽस्य प्रेयसी मान्या सीमान्या रूपसम्पदः । पूर्णदेवीति सौभाग्यमसौभाग्यं च बिभ्रती ॥ ५ ॥ जातमपत्यचतुष्टयमाभ्यामभ्यस्तशस्तजिनधर्मम् । भुवनगुरुविम्बपूजनकृतादरं मंदिरं नीतेः ॥ ६ ॥ प्रथमो देहनामा देशलनामा सुतोऽपरस्तत्र । सोहिणि-पुनिणिसंज्ञे पुत्रौ पात्रं विनयलक्ष्म्याः ॥ ७ ॥ एषां मध्ये सदयहृदयो धार्मिकः श्रावकाणां मुख्यः श्रीमान् मथितकुमतो वर्त्तते देशलाख्यः । यस्याजस्रं श्रवणपुटकैः सद्यशः क्षीरपूर, पाय पायं कथमपि जना नैव तृप्तिं भजन्ति ॥ ८ ॥ अन्यच्च Catalogue of Palm-Leaf Mss. in the गाम्भीर्येण पयोनिधेर्धिषणया वृंदारकाणां गुरो स्तुंगत्वेन सुपर्वपर्वतपतेः सौम्येन शीतत्विषः । सौन्दर्येण मनोभवस्य विभवित्वेनोत्तराशापते Jain Educationa International र्योऽत्यन्तं प्रतिपंथ्यपि त्रिजगतीमित्रं परं कीर्त्यते ॥ ९ ॥ न्यायार्जितेन विभवेन भवान्तहेतोः स्वीयालयोचितमनूननयेन येन । त्रैलोक्यकैरवविकासशशांकबिम्बं बिम्बं विधापितमपश्चिमतीर्थ भर्तुः ॥ १० शीलालंकारवती स्थिरदेवी वल्लभाऽभवच्चास्य । रेमे यदीयमनसा मनागपि न तीर्थिकवचस्तु ॥ ११ ॥ अनयोः संजातास्ते तनूरुहाः बाहडादयः सदयाः । मारो हतिमारोहत्ति विलोक्य कायश्रियं येषाम् ॥ १२ ॥ अन्यदा देशलः श्रुत्वा तथाविधगुरोर्गिरः । प्रवृत्तचेतसा सार्द्धं समालोचयितुं चिरम् ॥ १३ ॥ अहो भ्रातश्वेतो गुणगणनिधे ! किं नु भणसि ? क्षणं वार्त्तामेकां शृणु ननु मदीयामवहितम् । भवांभोवेर्मध्ये महति पततां हंतु भविनां विना जैनं धर्मं किमपि शरणं नास्ति नियतम् ॥ १४॥ ज्ञानादिभेदैः स पुनस्त्रिभेदः प्ररूपितो यद्यपि पूज्यपादैः । लातव्य - हातव्य-विवेकहेतुस्तथापि विज्ञानमसीषु मुख्यम् ॥ १५ ॥ For Personal and Private Use Only www.jainelibrary.org
SR No.018054
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1961
Total Pages206
LanguageEnglish
ClassificationCatalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy