SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Säntinātha Jain Bhandara, Cambay | 19 चान्द्रे कुले सदनकक्षकल्पे महाद्रुमो धर्मफलप्रदानात् । छायान्वितः शस्तविशालशाखः श्रीवर्द्धमानो मुनिनायकोऽभूत् ॥ ३ ॥ तत्पुष्पकल्पौ विलसद्विहारसद्धसंपूर्णदिशौ समंतात् । बभूवतुः शिष्यवरावनीचवृत्ती श्रुतज्ञानपरागतौ ॥ ४ ॥ एकस्तयोः सूरिवरो जिनेश्वरः ख्यातस्तथाऽन्यो भुवि बुद्धिसागरः । तयोविनेयेन विबुद्धिनाऽप्यलं वृत्तिः कृतैषाऽमयदेवसूरिणा ॥ ५ ॥ तयोरेव विनेयानां तत्पदं चानुकुर्वताम् । श्रीमतां जिनचंद्राख्यसत्प्रभूणां नियोगतः ।। ६ ॥ श्रीमज्जिनेश्वराचार्यशिष्याणां गुणशालिनाम् । जिनभद्रमुनींद्राणामस्माकं चाहिसेविनः ॥ ७॥ यशश्चन्द्रगणेर्गाढसाहाय्यात् सिद्धिमागता । परित्यक्तान्यकृत्यस्य युक्तायुक्तविवेचिनः ॥ ८॥ शास्त्रार्थनिर्णयसुसौरभलंपटस्य विद्वन्मधुव्रतगणस्य सदैव सेव्यः । श्रीनिर्वताख्यकुलसन्नदपद्मकल्पः श्रीद्रोणसूरिरनवद्ययशःपरागः ॥ ९ ॥ शोधितवान् वृत्तिमिमां युक्तो विदुषां महासमूहेन । शास्त्रार्थनिष्कनिकषणकषपट्टककल्पबुद्धीनाम् ॥ १० ॥ विशोधिता तावदियं सुधीभिस्तथापि दोषाः किल संभवंति । मन्मोहतस्तांश्च विहाय सद्भिस्तद् ग्राह्यमाप्तामिमतं यदस्याम् ॥ ११ ॥ यदवाप्तं मया पुण्यं वृत्ताविह शुभाशयात् । मोहाद् वृत्तिजमन्यच्च तेनागो मे विशुद्यतात् ॥ १२॥ प्रथमादर्श लिखिता विमलगणिप्रभृतिभिर्निजविनेयैः । कुर्वद्भिः श्रुतभक्ति दक्षैरधिकं विनीतैश्च ॥ १३ ॥ अस्याः करणव्याख्याश्रुतिलेखनपूजनादिषु यथार्हम् । दायिकसुतमाणिक्यः प्रेरितवानस्मदादिजनान् ॥ १४ ॥ अष्टाविंशतियुक्ते वर्षसहस्रे शतेन चाभ्यधिके । अणहिलपाटकनगरे कृतेयमच्छुप्तधनिवसतौ ॥ १५ ॥ अष्टादश सहस्राणि षट् शतान्यथ षोडश । इत्येवं मानमेतस्यां श्लोकमानेन निश्चितम् ॥ १६ ॥ छ । ॥ ग्रंथ १८६१६ ॥ छ । शुभं भवतु ।। छ । संवत् १२९८ वर्षे मार्ग सुदि १३ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.018054
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1961
Total Pages206
LanguageEnglish
ClassificationCatalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy