________________
14 1
Catalogue of Palm-Leaf Mss. in the
यावज्जनमतभानुः प्रकाशिताशेषवस्तुविस्तारः । जगति जयतीह पुस्तकमिदं बुधैर्वाच्यतां तावत् ॥ १२ ॥ छ ॥ संवत् १३४९ वर्षे मार्ग शुदि अह दयावटे ० होना श्रे० कुमरसीह श्रे० सोमाप्रभृतिसंघसमवायसमाख्ध पुस्तकभांडागारे ले० सीहाकेन लिखितम् ॥ छ ॥
*
No. 8
Folios - 320
Language - Sanskrit
Author - Abhayadevasūri
Age of MS. - c. First half of 14th cent. V. S.
आदि:
Sthānāngasūtra-Vrtti स्थानाङ्गसूत्रवृत्ति
Jain Educationa International
Extent - 14250 Granthas
Size -- 32.2 x 2.5 inches Condition - Good
Date of Compo. - 1120 V. S.
|| नमः श्रीवर्द्धमानाय ॥
श्री वीरं जिननाथं नत्वा स्थानांगकतिपयपदानाम् । प्रायोsन्यशास्त्रदृष्टं करोम्यहं विवरणं किंचित् ॥
FE श्रमण भगवतः श्रीमन्महावीरवर्धमानस्वामिनः इक्ष्वाकुकुलनन्दनस्य प्रसिद्ध सिद्धार्थराजसू नोर्महाराजस्येव
अंतः
इति श्रीमदभयदेवसूरिविरचिते स्थानाख्यतृतीयांग विवरणे दशस्थानकाव्यं दशममध्ययनं समाप्तमिति ॥ छ ॥ तत्समाप्तौ च समाप्तं स्थानांगविवरणम् । तथा च यदादावभिहितं स्थानांगस्य महानिधानस्येवोन्मुद्रणमिवानुयोगः प्रारभ्यत इति तच्चंद्र कुलीनप्रवचनप्रणीताप्रतिबद्धविहारहारिचरितश्रीवर्द्धमानाभिधानमुनिपतिपादोपसेविनः प्रमाणादिव्युत्पादनप्रवणप्रकरणप्रबंध प्रणायिनः प्रबुद्धप्रतिबंधक प्रवक्तृप्रवीणाप्रतिहतप्रवचनार्थप्रधानवाक्प्रसरस्य सुविहितमुनिजनमुख्यस्य जिनेश्वराचार्यस्य तदनुजस्य च व्याकरणादिशास्त्रकर्त्तुः श्रीबुद्धिसागराचार्यस्य चरणकमलचंचरीककल्पेन श्रीमद्भयदेवसूरिनाम्ना मया महावीरजिनराज - संतानवर्त्तिना महाराजवंशजन्मनेव संविग्नमुनिवर्गप्रवरश्रीमद् जितसिंहाचार्यान्तेवासियशोदेवगणिनामधेय साधोरुत्तरसाधकस्येव विद्याक्रियाप्रधानस्य साहाय्येन समर्थितम् । तदेवं सिद्धमहानिधानस्येव समापिताऽधिकृताऽनुयोगस्य मम मंगलार्थं पूज्यपूजा – नमो भगवते वर्त्तमानतीर्थनाथाय श्रीमन्महावीराय । नमः प्रतिपंथिसार्थप्रमथनाय श्रीपार्श्वनाथाय । नमः प्रवचनबोधिकायै श्रीप्रवचनदेवतायै । नमः प्रस्तुतानुयोगशोधकाय श्रीद्रोणाचार्यप्रमुखपंडितपर्षदे । नमः चतुर्वर्णाय श्री श्रमण संघभट्टारकायेति । एवं च निजवंशवत्सलराजसंतानिकस्येव
For Personal and Private Use Only
www.jainelibrary.org