________________
Santinātha fain Bhandara, Cambay
[ 13
नमः श्रीवर्द्धमानाय वर्द्धमानाय वेदसा । . . वेदसारं परं ब्रह्म ब्रह्मबद्धस्थितिश्च यः ॥ १॥ स्वबीजमुप्तं कृतिभिः कृषीवलैः क्षेत्रे सुसिक्तं शुभभाववारिणा । क्रियेत यस्मिन् सफलं शिवश्रिया पुरं तदत्रास्ति दयावटाभिधम् ॥ २ ॥ ख्यातस्तत्रास्ति वस्तुप्रगुणगुणगणः प्राणिरक्षकदक्षः
सज्ञाने लब्धलक्ष्यो जिनवचनरुचिश्चंचदुच्चैश्चरित्रः । पात्रं पात्रकचूडामणिजिनसुगुरूपासनावासनायाः
संवः सुश्रावकाणां सुकृतमतिरमी सन्ति तत्रापि मुख्याः ॥ ३॥ होनाकः सज्जनज्येष्ठः श्रेष्ठी कुमरसिंहकः । सोमाकः श्रावकश्रेष्ठः शिष्टधीररिसिंहकः ॥ ४ ॥ कडयाकश्च सुश्रेष्ठी सांगाक इति सत्तमः । खीम्वाकः मुहडाकश्च धर्मकर्मेककर्मठः ॥ ५ ॥ एतन्मुखः श्रावकसंघ एषोऽन्यदा वदान्यो जिनशासनज्ञः । सदा सदाचारविचारचारुक्रियासमाचारशुचित्रतानाम् ॥ ६ ॥ श्रीमज्जगच्चन्द्रमुनीन्द्रशिष्यश्रीपूज्यदेवेन्द्रसूरीश्वराणाम् । तदाद्यशिष्यत्वभृतां च विद्यानन्दाख्यविख्यातमुनिप्रभूणाम् ॥ ७ ॥ तथा गुरूणां सुगुणैर्गुरूणां श्रीधर्मघोषाभिधसूरिराजाम् । सद्देशनामेवमपापभावां शुश्राव भावावनतोत्तमांगः ॥ ८ ॥ विषयसुखपिपासोर्गेहिनः क्वास्ति शीलं
करणवशगतस्य स्यात् तपो वाऽपि कीदृक् । अनवरतमदभ्रारम्भिणो भावनाः का
स्तदिह नियतमेकं दानमेवास्य धर्मः ॥ ९ ॥ किंचधर्मः स्फूर्जति दानमेव गृहिणां ज्ञानाभयोपग्रहै
स्त्रेधा तद्वरमाधमत्र यदितो निःशेषदानोदयः । ज्ञानं चाद्य न पुस्तकैर्विरहितं दातुं च लातुं च वा
शक्यं पुस्तकलेखनेन कृतिभिः कार्यस्तदर्थोऽर्थवान् ॥ १० ॥ श्रुत्वेति संघसमवायविधीयमानज्ञानार्जनोद्भवधनेन मिथः प्रवृद्धिम् । नीतेन पुस्तकमिदं श्रुतकोशवृद्धयै बद्धादरश्चिरमलेखयदेष हृष्टः ॥ ११ ॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org