SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ 361 Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; Pt. H. N. Vidyābhūşaņa Collection) लिलिखोदयराजो यां प्रशस्ति शुद्धधीरिमाम् । उत्कीर्णवान् शिलाकूटस्तील्हणस्तां सदक्षराम् ।। सं० ११४५ भाद्रपद सुदि ३ सोमदिने। मंगलं महा श्रीः ।। 59. नरवर के कच्छपघातवंश की प्रशस्ति । ओम नमो नारायणाय । संवत् ११७७ कार्तिक वदि अमावस्यायां रविदिनेऽद्यह श्रीमन्नवलपुरमहादुर्गे परमवैष्णवः परमब्रह्मण्यो दीनानाथः कृपणजनवत्सलोऽनेकगुणगणालङ्कतशरोरः पितृमातृपादाम्बुजसुग्रहणपरी . युधिष्ठिरवत् सत्यवादी भीमसेन इवात्यद्भुतवीर्योऽर्जुन इव धनुर्धराग्रेसरः कर्ण इव त्यागी जितकीर्तिः दुर्योधन इव महामानी मृगेन्द्र इवाऽप्रतिमपराक्रमः समरवसुधावतीर्णदुर्वारवैरिवारणघटासंधट्टविघट्टनोपाजितयश:सुधाधवलिताखिलमहीमंडल: श्रीमत्कच्छपघातान्वयसरःकमलमार्तण्डो महाराजाधिराजपरमेश्वरश्रीशारदसिंहदेवपादध्यानानुध्यानपरः परमराज्ञीश्रीलखमादेवीगर्भरत्नाकरोत्पन्नमाणिक्यमूर्तिः परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीवीरसिंहदेवो विजयो उपरि सूचितग्रामे ब्राह्मणोत्तरान् बलिराजमहन्तप्रमुखसमस्तजनपदान् यथार्ह प्रतिमान्य सम्बोधयति समाज्ञापयर्यात च। विदितमस्तु भवतां यथानामतः प्रसिद्धो बवाड़ीग्रामः समस्तनिजमेखलावलय पर्यंतः सवनवृक्षमालाकुलः साभ्रमधुकाराम्रसमस्ततृणकाष्टाटवीयुक्त आकाशपातालीयोत्पत्तिसमुपेतो महादण्डदौहृद(६)शापराधवजितः प्रतिषिद्धचौरपुरप्रवेशोऽष्टादशप्रबलसमन्वितो यथाभागभोगकरहिरण्यादिप्रवेशः चतुराघाटविशुद्धः श्रद्धया पुण्येहऽनि मनोनुध्यातगंगादिमहानदोजले हिरण्यदर्भोदकस्पर्शपूर्वकं विधिवत् पित्रोरात्मनश्चैहिकामुष्मिकपुण्ययशोभिवृद्धयेऽस्माभिः प्रतीतः काश्यपगोत्रायाऽऽवसथिक गोविन्दाय पदे २ भ्रातृपद्मनाभाय पदं १ केशवाय पदं १ उपमन्युगोत्राय चतुर्वेदीरामाय पदं १ केशवाय पदं १ नारसिंहाय पदं १ लखमणाय पदं १ भारद्वाजगोत्राय सठे पदं १ काश्यपगोत्राय पदं० ॥ केशवाय पदं० ॥ कृष्णात्रेयगोत्राय पंछी हिलाय पदं १ काश्यपगोत्राय पं० गोपतिपदं १ अत्रिगोत्राय महसोणपदं भार्गवगोत्राय शीले पदं १ कृष्णा त्रेयगोत्राय नाबूपदं १ भारद्वाजगोत्राय माल्यपदं १ कपिष्ठलगोत्राय चामरपदं १ गोतमगोत्राय पाप पदं १ प्रदत्तः स च भवद्भिरनुमंतव्य अनुपालनोयश्च । यानि च भूदानप्रशंसावाक्यानि व्यासादिभिः प्रणीतानि तानि भवद्भिः श्रतान्येव यथा बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः। यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ।।१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy