SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts [.35 APPENDIX 2 (Copies of inscriptions) प्रास्थानाधिपतौ बुधादविगुणे श्रीभोजदेवे नृपे, सभ्येष्वंबरसेनपंडितशिरोरत्नादिषूद्यन्मदान् । योऽने कान् शतशो व्यजेष्ट पटुतोभीष्टोद्यमो वादिनः, शास्त्राम्भोनिधिपारगोऽभवदतः श्रीशान्तिषेणो गुरुः ॥२८॥ गुरुचरणसरोजाराधनावाप्तपुण्यप्रभवदमलबुद्धिः शुद्ध रत्नत्रयोऽस्मात् । अजनि विजयकी तिः सूक्त रत्नावकीर्णा जलधिभुवमिवैतां [यः] प्रशस्तिं व्यधत (त्त) ॥२६॥ तस्मादवाप्य परमारगसारभूतं धर्मोपदेशमधिकाधिगतप्रबोधाः । लक्ष्म्याश्च बंधुसुहृदां च समागमस्य मत्वायुषश्च वपुषश्च विनि (न)श्वरत्वम् ॥३०॥ प्रारब्धाधर्मकान्तारविदाहः साधुदाहड़ः । सद्विवेकश्च कूकेक: सूर्पट: सुकृते पटुः ॥३१॥ तथा देवधरः शुद्धः धर्मकर्मधुरन्धरः । चन्द्रालिखितनाकश्च महीचन्द्रः शुभार्जनात् ।।३२॥ गुणिनः क्षण नाशि-श्री-कला-दान-विचक्षणा: । अन्येऽपि श्रावकाः केचिदकृतेन्धनपावकाः ।।३३।। किंच लक्षणसंज्ञोभूद् हृदेवस्य मातुलः । गोष्टिको जिनभक्तश्च सर्वशास्त्रवि वक्षणः ।।३४।। शृंगाग्रोल्लिखितांबरं वरसुधा सान्द्र द[दि] वापांडुरं, __ सार्थं श्रीजिनमन्दिरं त्रिजगदानन्दप्रदं सुन्दरम् । संभूषेदमकारयन् गुरुशिरःसंचारिकेत्वंबर प्रान्तेनोच्छलतेव वायुविहिते(मादित[:] पश्यताम् ।।३।। अर्थतस्य जिनेश्वरमंदिरस्य निष्पादनपूजन-संस्कारार्थाय कालान्तर-स्फुटितटित प्रतीकारार्थं च महाराजाधिराजश्रीविक्रमसिंहः स्वपुण्यराशेरप्रतिहतप्रसरं परमोपचयं चेतसि निधाय गोणी प्रति विशोपकं गोधूमगोणी चतुष्टयं वापयोग्यक्षेत्रञ्च महाचक्रग्राम भूमौ रजकद्रहपूर्वदिग्भागवाटिका-वापो-समन्विता प्रदीपमुनिजनशरोराभ्यञ्जनार्थं करघटिकाद्वपञ्च दत्तवान् तचाच द्रार्क महाराजाधिराजश्रोविक्रमसिंह[] परोधेन बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ।। इति स्मृतिवचनान्निजमपि श्रेयःप्रयोजनं मन्यमानैः सकलैरपि भाविभि मूभिपालैः प्रतिपालनोयमिति ।।०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy