SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ OPENING (w.): [ १० ] 'OLOPHON : इति श्रीअद्वैताचार्य्यसंग्रहेण श्रीकृष्णचैतन्यप्रकाशयंत् नित्यानंदमयनयुत्ता मंद प्रास्वादचतुर्थनिग्रहपटलम् । ॥ इति हरिनामषोडश सपूर्णम् ॥ 358. अधिकारसंग्रहस्तोत्रं सटीकम् ॥श्रीमते रामानुजाय नमः ।। प्रपदनमये विद्याभेदे प्रतिष्ठितचेतसः, प्रतिपदमिह प्रज्ञादायं दिशन्तु दयाधनाः । शठरिपुशुकव्यासप्राचेतसादिनिबन्धनश्रमपरिणतश्रद्धाशुद्धाशया मम देशिकाः ।।१।। पठत रहस्यत्रयसारादुद्धतमधिकारसंग्रहं सुधियः । जननपदवीगतागत-जंघालत्वं जिहासन्तः ।।४।। (ct.): ॥ श्रीमते रामानुजाय नमः ॥ श्रीमान्वेङ्कटनाथार्यः कवितार्किककेशरी। बेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥१॥ इह खलु भगवान् कवितार्किकसिंहः सर्वतन्त्रस्वतन्त्रः श्रीमान् वेङ्कटनाथार्यः वेदान्ताचार्यवर्यः रहस्य त्रयसाराधिकारार्थसंग्रहेण शिष्यबुद्धिसमाधानं कुर्वन् आदावाचार्यप्रणामरूपं मङ्गलव्याजेन स्वरूपयाथात्म्यज्ञानं प्रार्थयते ॥१॥ विद्याभेदे प्रपदनमये पृथगुपायत्वेन प्रमाणप्रसिद्ध प्रपदन इत्यर्थः । स्वार्थे मयट् । तत्र प्रतिष्ठितचेतसः स्थिरचित्तः (स्य) । अनेन महाविश्वासः सूचितः। दयाधनाः कृपामात्रप्रसन्नाः शिष्यानुवृतिनिनिरपेक्षा इत्यर्थः। शठरिपु-शुक-व्यास-प्राचेतसादीनां निबन्धनेषु प्रबलेषु श्रमेण सन्तताभ्यासेन परिणतया कर्मज्ञानयोरङ्गत्वात् भक्तेः शक्ताधिकारित्वाच्च अनुपायतया प्रपत्तिरेवानुरूपोपाय इत्येवंविधबुद्धया परिपक्कया श्रद्धया शुद्धः निसंशयः प्राशयो येषांते तथोक्ताः देशिकाः, मम ज्ञानादिगुणरहितस्य, प्रज्ञादायं-प्रकृष्टज्ञानं प्रज्ञा तदोयशेषत्वज्ञानं, पदे पदे प्रतिपदं सन्ततमित्यर्थः, दिशन्तु, यद्वा पद्यते प्राप्यते इति पदं प्राप्य तं प्रति प्रज्ञादायं त्वरारूपं ज्ञानं, अथवा विद्याभेदे प्रपदने अप्रतिष्ठितचेतसः चञ्चलचित्तस्य प्रज्ञादायं अमोघत्वानन्यापेक्षत्वशरण्याभिमतत्वक्षणमात्रनिष्पाद्यत्वादिज्ञानमिह इदानीमेव दिशन्तु। प्रार्थनायां लोट् ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy