SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ कोशग्रन्थाः] काव्यप्रकाशटीका । भवदेवः पृ. ५६ [ M. L. ८६२५, S. २।२८] अस्याश्च टीकाया लीलेति संज्ञाऽन्यत्र दर्शिता । महामहोपाध्यायपदभाक् कृष्णदेवपुत्रो भवदे. वठकुरस्य च शिष्यः टीकाकारोऽयं कदाऽऽसीदिति नावगतम् । काव्यप्रकाशावचूरिः क्र. २६२(२) मुद्रिते काव्यप्रकाशे तरप्रस्तावनायां प्रस्तावकेन वामनाचार्येण २७ तमे प्रघट्टकेऽवचूरिकर्ता राघव इति सूचितम् । ले. सं. १२०५(?) काव्यकल्पलताविवेकः क्र. १८८,३१० [S. २।२५,७७] सं. १६६५ काव्यकल्पलतावृत्तिमकरन्दः । शुभविजयः पृ. ५७ [P. P. ६२५] सुप्रसिद्धाया वायटगच्छीयामरचन्द्रसूरिकृताया अस्या वृत्तेर्मकरन्दकारोऽयं पण्डितोऽकब्बरप्र. तिबोधकहीरविजयसूरेः शिष्यः यस्य स्याद्वादभाषा (सवृत्तिः), प्रश्नोत्तरसङ्ग्रहः (रत्नाकरः), सं. १६६३ वर्षे तर्कभाषावार्तिकमित्यादिका रचना दृश्यते । अस्य रचना तु विजयसेनसूरिपहालङ्कारविजयदेवसूरिनिर्देशात् सलेमसाहिराज्ये राजनगरे जाता । संशोधनं तु कल्याणविजयवाचकशिष्यधर्मविजयवाचकेन पं० मेरुविजयशिष्यपं० लावण्यविजयेन चाकारीस्येतत्प्रान्तेऽवलोक्यते। कोशग्रन्थाः । शब्दरत्नप्रदीपः। पृ. ५८ कर्तुनाम नावगतम् । सुमतिगणिना सं. १२९५ वर्षे विहितायां गणधरसार्धशतकवृत्तावयं नैकवार प्रमाणस्वेनोद्धतः । कल्याणमल्लकृतः शब्दरत्नदीपोऽयं चैक एव विभाव्यते । लिङ्गानुशासनविवरणम् । हेमाचार्यः क्र. १८९(१) [ P. P. ११७६] मूलं सावचूरिकं मुद्रितम् । स्वोपज्ञविवरणसहितमिदमन्यत्र मुद्राप्यत इति श्रुतम् । भयं प्रन्थकारः सुप्रसिद्ध एव कुमारपालभूपालप्रतिबोधकत्वेन सार्धत्रिकोटिश्लोकपरिमितग्रन्थगणगुम्फयितृत्वेन च । कलिकालसर्वज्ञेति बिरुदमाबिभ्राणस्यास्य सूरिवर्यस्य सत्ताऽऽदिकं पूर्व (पृ. २६) सूचितम् । ले. सं. १२८२ अनेकार्थकैरवकौमुदी क्र. ७७,१२५,१७९,१९५ [P. P. ११८९,१२२] सुप्रसिद्धस्य हैमानेकार्थसङ्ग्रहस्येयं वृत्तिहेमचन्द्रसूरिशिष्येण महेन्द्रसूरिणा स्वगुरुनाम्ना प्रतिष्टिता । अनेन महेन्द्रसूरिणा सं. १२४१ वर्षे सोमप्रभाचार्यविरचितः कुमारपालप्रतिबोधः १ 'काव्यप्रकाशावचूर्णिः १२५०-६० २ "श्रीहेमसूरिशिष्येण श्रीमन्महेन्द्रसूरिणा। भक्तिनिष्ठेन टीकेयं तन्नाम्नैव प्रतिष्ठिता ॥"-टीकाप्रान्ते "हैमानेकार्थनाममाला[वृत्तिः.] खरकाण्डषट्का । आदौ खरव्यजनकमेण बद्धनामाऽ न्तव्यञ्जनक्रमबद्धा श्रीमहेन्द्रसूरिकृता ।"-बृ. ३ "हेमसूरिपदपङ्कजहंसैः श्रीमहेन्द्रमुनिपैः श्रुतमेतत् । वर्धमान-गुणचन्द्रगणिभ्यां साकमाकलितशास्त्ररहस्यैः ॥”-कु० प्र० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy