SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ६२ [ अप्रसिद्ध० सं. ११९२ वर्षे योगसारलेखयिताऽमलकीर्तिरस्य शिष्यो ज्ञायते । प्रा० शिलोपदेशमालायाः प्रणेता जयकीर्तिः स्वं जयसिंह सूरिशिष्यत्वेन परिचाययति स्म, सत्वस्माद् भिन्नो विज्ञायते । अलङ्कारग्रन्थाः । अलङ्कारदर्पणम् ले. सं. ११६१ क्र. २११ (१) लघुकमपि प्राचीनमेतत् प्राकृतभाषयाऽलङ्कृतमलङ्कारपुस्तकं कदा केन निर्मितमिति नावगम्यते; तथापि श्रुतदेषमङ्गलकरणात् कर्ता जैनः सम्भाव्यते । सं. ११६१ वर्षीयताडपत्रसङ्ग्रहे सङ्गृहीतत्वाश्च ततः पूर्वमस्य रचनेति स्पष्टम् । बर्लीनस्थपुस्तकसङ्ग्रहेऽप्येतत् श्रूयते । वक्रोक्तिजीवितम् । कुत्तकः क्र. २२१ अस्य रचनासमयो नावगतः । अलङ्कारसर्वस्व - साहित्यदर्पण - सारसमुच्चय ( काव्यप्रकाशटीका) प्रभृतिष्वस्य नामोपात्तम् । व्यक्तिविवेककर्त्रा च महिमभट्टेनास्य स्वग्रन्थे खण्डनमकारीत्यस्य ततः प्राचीनतेति सिद्धम् । मुद्रिते च सवृत्तिके व्यक्तिविवेकप्रन्थेऽस्य 'कुन्तक' इति नाम दर्शिम्, तत्तु न शोभनं प्रतिभाति । ले. सं. १२१६ कविरहस्यवृत्तिः क्र. २७ (२) सुप्रसिद्धस्य हलायुधकृतस्य मूलस्यास्य वृत्तिकारो रविधर्म इति प्रसिद्धिः । [ काव्यादर्श व्याख्या ( हृदयङ्गमा)] क्र. २२२ (३) [ M. L. पृ. ८६३३] अपूर्णेयं मुद्विताऽत्रापि न परिपूर्णा, केवलं तृतीयपरिच्छेदसत्का | व्याख्यातुर्नाम नोपलभ्यते । सं. १९०६ वर्षीयता. सङ्ग्रहे वर्ततेऽतस्तत्पूर्वमस्या रचनेति स्पष्टम् । ले. सं. १२७१ काव्यप्रकाशसङ्केतः क्र. २९३ (२) अयं माणिक्यचन्द्रकृतोऽथषा भट्टसोमेश्वरविरचित इति न निर्णीयते । सं. १२१ ( ४ ) ६ वर्षे माणिक्यचन्द्रेण कृतस्त्वन्यत्र साम्प्रतं मुद्रितः । भट्टसोमेश्वरकृतोऽपि तद्वत् प्राचीनः । ले. सं. १२८३ काव्यप्रकाशसङ्केतः ( काव्यादर्शः ) । भट्टसोमेश्वरः क्र. ९९,३४६ [P. P. ५/५२] सङ्केत कारोऽयं भरद्वाजकुलीनभट्टदेवकपुत्रः कदाऽऽसीदिति न निर्णीतम् । १ " श्रीजयकीर्तिसूरीणां शिष्येणामलकीर्तिना । लेखितं योगसाराख्यं विद्यार्थिवामकीर्तिना ॥” – P. P. ५।१४७ २ ' काव्य काश्चनकषाश्ममानिना कुत्तकेन निजकाव्यलक्ष्मणि । यस्य सर्वनिरवद्यतोदिता श्लोक एष स निदर्शितो मया ॥' - व्यक्तिविवेके ३ " रस - वक्त्र - ग्रहाधीशवत्सरे मासि माधवे । काव्ये काव्यप्रकाशस्य सङ्केतोऽयं समर्थितः ॥ " - P. P. ३३२० 'काव्यप्रकाशसङ्केतः १२१६ वर्षे माणिक्यचन्द्रीयः ३२४४ । ' - बृ० ४ ' भरद्वाजकुलोत्तंस भट्टदेव कसूनुना । सोमेश्वरेण रचितः काव्यादर्शः सुमेधसा ॥' - प्रान्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy