SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ छन्दोग्रन्थाः] अज्ञातरचनासमया चेयम्-कल्पसूत्रकल्पलतावृत्तिः, खरतरपट्टावली (2), दुरियरयसमीर वीरचरित्रस्तववृत्तिः, भक्तामरचतुर्थपादसमस्यास्तवाद्या संस्कृते; जंबूरास, धनदत्तचोपाई, नेमि-राजिमतीरास, प्रश्नोत्तरचोपाई, श्रीपालरास सीतारामचोपाई, हंसराज-वच्छराज चोपाई (2) प्रश्नोत्तरसारसङ्ग्रह, कर्मछत्रीशी, क्षमाछत्रीशी, पुण्यछत्रीशी, अनाथीऋषिसज्झाय, निद्रा सज्झाय, निन्दावारकसज्झाय, पद्मावतीसज्झाय, शालिभद्रसज्झाय अन्तरिक्ष-गोडीपार्श्वछन्द, अल्पबहुत्वगर्भितमहावीरस्तवन, उपधानस्तवन, तीर्थमालास्तवन, पञ्चमीस्तवन शीतलनाथस्तवन, सीमंधरस्तवन इत्याद्या गूर्जरभाषानिबद्धा च कृतिरवलोक्यते । सं. १६७३ वर्षे मध्याह्नव्याख्यानपद्धतिकारो हर्षनन्दनगणिरस्यैव शिष्यः । __ छन्दोग्रन्थाः । ले. सं. ११९० जयदेवच्छन्दःशास्त्रम् । जयदेवः क्र. २३८(१) अष्टाध्यायविभूषितं सूत्ररूपमेतद् द्वादशशताब्दीप्रारम्भे जातो जिनवल्लभसूरिरध्यैष्टेति सं. १२९५ वर्षे विरचितायां गणधरसार्धशतकवृत्तौ सुमतिगणिना तच्चरित्रप्रस्तावे वर्णितम् । अग्रतो निर्दिश्यमाने सं. ११९२ वर्षे लिखिते छन्दोऽनुशासने च जयकीर्तिनाऽस्य नामकीर्तनमकारीत्यतोऽस्य प्राचीनता प्रस्फुरत्येव । ले. सं. ११९० जयदेवच्छन्दोविवृतिः । हर्षटः क्र. २३८(२) पूर्वोक्तच्छन्दःशास्त्रसूत्राणामिदं विवरणम् । विवरणकारोऽयं हर्षटः स्त्रस्य भट्टमुकुलकारमज. स्वमदर्शयत् । अभिभावृत्तिमातृकाकारोऽयं मुकुलभट्टः सम्भाव्यते। ले. सं. ११९० कइसिट्ठम् । विरहाङ्कः क्र. २३८(३) प्राकृतभाषायां मात्रावृत्त-वर्णवृत्तप्रतिपादकः पण्नियमविभक्तः कहसिष्ठ-कविसिह-कृतसिद्धछन्दोविचिति-वृत्तजातिसमुच्चयेत्यादिविविधसंज्ञया व्यवहृतोऽयं छन्दोग्रन्थः कदा प्रादुरभूदिति निश्चित्य वक्तुं न शक्यते । अयं कविः सद्भावलान्छनं गन्धहस्तिनमवलेपचिह्न पिङ्गलं च प्रणमति स। दण्डिकविना काव्यादर्श स्मृता च्छन्दोबिचितिरितो भिन्नाभिन्ना वेति न निर्णयः । ले. सं. ११९० कइसिवृत्तिः । गोपालः क्र. २३८(४) पूर्वसूचितस्य प्राकृतच्छन्दोविचितिग्रन्थस्येयं वृत्तिः। वृत्तिकारोऽयं गोपालो भट्टचक्रपालस्य सूनुरिति प्रान्तांशनिरीक्षणादवबुध्यते । श्रीधरभाण्डारकरेण तु (S. २१२५) कहसिष्ठस्थाने कहसिद्ध इति चक्रपालस्थाने चन्द्रपाल इति च निरदेशि । वृत्तिका कात्यायन-भरत-कम्बलाश्वतरादीनां सरणमकारि।। ले. सं. ११९२ छन्दोऽनुशासनम् । जयकीर्तिः क्र. २३८(६) वर्धमाननमस्कारमङ्गलकरणेनायं कवि नः प्रतिभाति । माण्डव्य-पिङ्गाल-जनाश्रय-सेतवपूज्यपाद-जयदेवबुधादीनां छन्दांसि वीक्ष्यतच्छन्दोऽनुशासनं विहितमिति प्रान्ते दर्शितम् । १ "पचं चतुष्पदं तच्च वृत्तं जातिरिति द्विधा । छन्दोविचित्या सकलस्तत्प्रपञ्चो निदर्शितः ॥"-काव्यादर्श Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy