SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ व्याकरणग्रन्थाः] ५७ ले. सं. १२०६ विभक्तिविचारः क्र. २२२(२) ही. सूचिपत्रेऽयं ग्रन्थो जिनपतिसूरिविरचितो दर्शितः, किन्तु तत्समयविचारणायां नैतत् सम्भवति; यतः सं. १२१० वर्षे तस्य जन्मेत्यादि पूर्व (पृ. २८) सूचितम् । ले. सं. १२०७ स्याद्यन्तप्रक्रिया । सर्वधर उपाध्यायः क्र. २६(१) दुर्गसिंहवृत्तिटीकारूपा 'वाङ्मयप्रदीप' इत्यपरावाऽस्य विदुषस्त्यायन्तप्रक्रिया P. P. ६२. इत्यत्र प्रदर्शिता; तथैवेयमपि काण्डचतुष्टयविभक्ता पलिङ्गप्रकरणप्रक्रिया कातप्रवृत्तिटीकारूपा सम्भाव्यते । B. पृ. १४४ इत्यत्रोल्लिखिता परादिव्याख्यावृत्तिरस्य कृतिर्ज्ञायते । ग्रन्थकारोऽयं बौद्धो भाति । धातुरत्नाकरकार-भरतसेन-भानुजी-रायमुकुटादिमिरयं स्मर्यतेस्म । ____ कातत्रोत्तरम् (विद्यानन्दम्) । विजयानन्दः क्र. २१५ (१), ३१६ P. P. ४.१६ इत्यादावस्य सिद्धानन्द' इति नाम सूचितं तन्न सम्यग् , यतः सं. १३१२ वर्षेऽभयकुमारचरितस्य कर्ता चन्द्रातिलकोपाध्यायोऽस्य 'विद्यानन्द' इति नाम दर्शितवान् (पृ. ४९) यश्चादोऽध्यैष्ट । अन्यत्राप्येतदेव नाम समुपलभ्यते । जैनग्रन्थावल्यामेतनाम वृ० स्खलनोद्भवं सूचितं तच सुष्छु । क्रियाकलापादिकर्ताऽयं चैक एव प्रतिभाति । कातन्त्रवृत्तिपञ्जिका । त्रिलोचनदासः क्र. ३४,७१,१०४,२६१; पृ. ५३ दुर्गसिंहवृत्तिविषमपदव्याख्यारूपा सुलभेयमन्यत्रापि (B. पृ. १४४, A. २।३३६) सू. चिता । पञ्जिकाकारोऽयं बौद्धो ज्ञायतेऽनेन कातन्त्रोत्तरपरिशिष्ट-धातुपारायणाद्यपि कृतं श्रूयते । ले. सं. १२७१ व्याकरणचतुष्कावचूरिः(र्णिः) क्र. २९३(१) अस्याः प्रारम्भश्लोकः कनकप्रभकृतस्य हैमन्यासस्य प्रारम्भश्लोकेन (पृ. ५३) सह संवदति । स एव हैमन्यासोऽयमथवा काऽप्यन्याऽवचूरिरिति प्रतिदर्शनं विना निर्णयोऽशक्यः । इयं पुस्तिका मरचन्द्रसूरीणामादेशेन पं. गुणवल्लभेन समर्थितेति वाक्येन संस्कृत्य लिखितेति प्रतिभाति । दु. सं. १३२८ कातप्रवृत्तिदुर्गपदप्रबोधः । प्रबोधमूर्तिः क्र. १५१ अस्य' ग्रन्थकर्तुर्जन्म सं. १२८५ वर्षे, दीक्षा सं. १२९६ वर्षे, सूरिपदं सं. १३३१ (३३) वर्षे, स्वर्गमनं च सं. १३४१ वर्षे इति ख० पट्टावल्यादितो ज्ञायते । अयं खरतरगच्छीयजिनेश्वरसूरेः शिष्यो जिनचन्द्रसूरेश्च गुरुरासीत् । अस्य सूरिपदात् पूर्व प्रबोधमूर्तिरिति, सूरिपदानन्तरं च जिनप्रबोधसूरिरिति नामाभवत् । पैत्तनीयप्रतिप्रान्ते तत् स्फुटमुल्लिखितं दृश्यते । एतद्वन्थरचनावसरे प्रबोधमूर्तिरिति नामासीत् । सं. १३३३ वर्षीये गिरिनारगिरिशिलालेखे जिनप्रबोधसूरिरिति नाम निर्दिष्टम् । सं. १३३४ वर्षे विवेकसमुद्रगणिना विरचिता पुण्यसारकथाऽनेन सैमशोधीति तत्रापि पाश्चात्यमेव नाम दर्शितम् । सं. १३५१ वर्षे प्रह्लादनपुरे जिनचन्द्रसूरिणा प्रतिष्ठिताऽस्य सूरेमूर्तिः स्तम्भतीर्थे विद्यते।। १ “कातन्त्रोत्तरं विद्यानन्दापरनामकं समासप्रकरणं यावत् विद्यानन्दसू० कृ० व्या० ।"-६० २ 'कातन्त्रचतुष्काख्यातकृत्पञ्जिका त्रिलोचनदासकृता दौर्गसिंहवृत्तिविषमपदव्याख्यारूपा ।'-बृ० ३ "सामान्यावस्थायां प्रबोधमूर्तिगणिनामधेयैः श्रीजिनेश्वरसूरिपट्टालकारैः श्रीजिनप्रबोधसूरिभिविरचितो दुर्गपदप्रबोधः सम्पूर्णः ॥"-का० दु० प्र० P. ४ "षद्गतर्कसिद्धान्तपयोधिकुम्मादीभसिंहैः सुलब्धिवार्षिभिः । ___ कथाऽसको श्रीमुनिराजनायकैर्जिनप्रबोधप्रभुभिर्विशोधिता ॥"-पुण्यसारकथा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy