________________
५६
[अप्रसिद्ध सं. १०९५ वर्षे धनेश्वरसाधुः पञ्चग्रन्थीनामधेयामेतां कृति प्राशंसत् । श्रीधरभाण्डारकरेण शब्दलक्ष्मलक्षणनाम्नैतत् समसूचि । 'शब्दलक्ष्म' 'पञ्चग्रन्थी' 'बुद्धिसागर' इति त्रीण्यपि नामानि ग्रन्थका ध्वनितानि । सं. ११२०-२४ वर्षेऽभैयदेवसूरिः, सं. ११२५ वर्षे जिनचन्द्रसूति, सं. ११३९ वर्षे गुणचन्द्रगणिः, "जिनदत्तसूरिः, सं. १२९४ वर्षे विद्यमानः पैमप्रभसूरिः, सं. १२९५ वर्षे सुमतिगणिः, सं. १३३४ वर्षे प्रभाचन्द्रसूरिरित्यादयो ग्रन्थकर्तारो निज निजग्रन्थेषु व्याकरणादिग्रन्थकृत्त्वेनैनं वर्णयामासुः । अयं व्याकरणकारो वर्धमानसूरेः शिष्यः, सुरसुन्दरीकथाकृद्धनेश्वरसाधु-संवेगरङ्गशालाकारजिनचन्द्रसूरि-नवाङ्गीवृत्तिकाराभयदेवसूरीणां गुरोरष्टकवृत्ति-कथाकोश-पञ्चलिङ्गीप्रकरण-प्रमालक्ष्म-षट्स्थानकप्रकरणादिग्रन्थकर्तुश्चैत्यवासिविजेतुर्जिनेश्वरसूरेश्च सहोदरः सतीर्थ्यश्च । प्रभाचन्द्रसूरिणाऽस्य व्याकरणस्य सहस्राष्टकमानं दर्शितं तन सम्यग् , यतः स्वयमेव काऽस्य सप्तसहस्रकल्पत्वं समसूचि । ही. श्रीधरभाण्डारकरेण च प्रमालक्ष्मग्रन्थोऽस्य कृतित्वेन निर्दिष्टो न चैवम् , स तु जिनेश्वरसूरिविरचित इति तत्प्रान्तादवगम्यतेऽन्यत्र चैतद् विचारितम् ।। बलाबलसूत्रवृत्तिः
पृ. ४५ बृहद्वृत्तेः संक्षिप्येयं निर्मितेति प्रान्ते दर्शितम् । इयं D. सूचिपत्रे हेमचन्द्रकृतिस्वेन सूचिताऽन्यत्र (B. पृ. १४४, I. पृ. २०४) परिभाषावृत्तिनाम्ना दुर्गसिंहकृतित्वेन निर्दिष्टा । प्रारम्भश्लोकस्तु प्रायः सर्वत्र समानः, किं तथ्यं तत्तु तत्पुस्तकपर्यालोचनसाध्यम् ।
व्या० श्रीबुद्धिसागराचार्यैः पाणिनि-चन्द्र-जैनेन्द्र-विश्रान्त-दुर्गटीकामवलोक्य वृत्तबन्धैः (१) धातुसूत्रगणोणादिवृत्तबन्धैः कृतं व्याकरणं संस्कृतशब्द-प्राकृतशब्दसिद्धये ॥"-प्रमालक्ष्मप्रान्ते।
१ "जस्स य मुहकुहराओ विणिग्गया अत्थवारिसोहिल्ला।
बुहचकवायकलिया रंगंतसुफक्कियतरंगा ॥ तडरुहअवसद्दमहीरुहोहउम्मूलणम्मि सुसमत्था । अज्झायपवरतित्था पंचग्गंथीनई पवरा ॥"-सुरसुन्दरीकथाप्रशस्तिः । 'पञ्चग्रन्थी पञ्चाङ्गं व्याकरणम्'-प्रा. टिप्पणी २ 'व्याकरणादिशास्त्रकर्तुः श्रीबुद्धिसागराचार्यस्य ।'-स्थानावृत्तिः । "अन्योऽपि वित्तो भुवि बुद्धिसागरः पाण्डित्यचारित्रगुणैरनो(नु)पमैः ।
शब्दादिलक्ष्मप्रतिपादकानघग्रन्थप्रणेता प्रवरः क्षमावताम् ॥"-पञ्चाशकवृत्तिः। ३ "बीओ पुण विरइयनिउणपवरवागरणपमुहबहुसत्थो।
नामेण बुद्धिसागरसूरि त्ति अहेसि जयपयडो ॥"-संवेगरङ्गशालाप्रशस्तिः। ४ "अन्नो य पुन्निमाचंदसुंदरो बुद्धिसागरो सूरी।
निम्मवियए(प)वरवागरण-छंदसत्यो पसत्थगई ॥"-महावीरचरियप्रशस्तिः। ५ "तिजयगयजीवबंधू जं बंधू बुद्धिसागरो सूरी ।
कयवायरणो वि न जो विवायरणकारओ जाओ ॥"-गणधरसार्धशतकम् । ६ "श्रीबुद्धिसागरो बुद्धिविभवं वितनोतु मे।
पद्यैः पद्येव शब्दाब्धेर्येन व्याकरणं कृतम् ॥"-कुन्थुनाथचरितम् । ७ “अथ च खनामानुरूपकृतव्याकरणोऽपि ।"-गणधरसार्धशतकबृहद्वृत्तिः। ८ "श्रीबुद्धिसागरः सूरिश्चके व्याकरणं नवम् ।
सहस्राष्टकमानं ततू श्रीबुद्धिसागराभिधम् ॥"-प्रभावकचरितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org