________________
जैनधर्मकथा-चरितानुयोगः] ४९
नलायनम् (?) माणिक्यसूरिः पृ. ५५ [ P. P. ३।३५७ ] . नलायनमेतद् य. वि. ग्रन्थमालायां मुद्राप्यमाणं श्रूयते । कुबेरपुराणेत्यपराह्वस्य दशसु स्कन्धेषु विभक्तैः शतसगैरुपेतस्यास्य महाकाव्यस्य प्रणेताऽयं सूरिवर्योऽत्र (५,२,३,७,९,१० स्कन्धे) स्वं वटगच्छनभोमृगाङ्कत्वेन, मुनिमनोहरयोर्विधातृत्वेन यशोधरचरितानुभवसार-सेतुनाटक-साहित्यसारादिस्रष्टुत्वेन चोपालक्षयति सातो राजगच्छीयो माणिक्यसूरिरसात् पृथक् प्रतिभाति, येन सं. १२१(१)६ वर्षे काव्यप्रकाशसङ्केतः, सं. १२७६ वर्षे पार्श्वनाथचरितम् , शान्तिनाथचरितादिकं च रचितम् ।
सं. १२८२ अतिमुक्तचरित्रम् । पूर्णभद्रगणिः क्र. १०(२) स्थानाङ्ग-भगवती-ऋषिस्तवेभ्य उद्धृत्यैतञ्चरित्रं जिनपतिसूरिशिष्येण पूर्णभद्रगणिना प्रहादनपुरे प्राणायि; येन सं. १२७५ वर्षे दशश्रावकचरित्रम् , सं. १२८५ वर्षे च धन्यशालिभद्रचरित्र-कृतपुण्यचरित्रायपि विनिर्मितमत्र दृष्टिपथपान्थीभवति ।
सं. १२८५ धन्यशालिभद्रचरित्रम् । पूर्णभद्रगणिः क्र. १०(१),२६३(१)
दलालेनास्य कृतपुण्यचरित्रं धन्यचरित्रमिति नाम निर्दिष्टक्रमाङ्कयोर्निरदेशि, किन्त्वेतदेव सद द्वयं प्रतिभाति । उपरि परिचायितोऽयं कविवर्यः षट्परिच्छेदात्मक मेतत् सं. चरित्रं जेसलमेरुदुर्गेऽकृत, शोधनं तु स सूरप्रभवाचकश्चकार, वादियमदण्डदिगम्बरेशजेता कालस्व. रूपकुलकवृत्तिकर्ता यश्चन्द्रतिलकोपाध्यायं विद्यानन्दं पाठितवाने । चरित्रकारेणात्र स्वगुरुपरम्परासूचिका विस्तृता प्रशस्तिनिबद्धा । [सं. १२८५ ? ] कृतपुण्यचरित्रम् । पूर्णभद्रगणिः क्र. २६३(१)
चरित्रकारः पूर्वोक्त एव । दलालेन क्र. १०(१) निर्दिष्टं तु तत्पशस्तिनिरीक्षणेन धन्य-शालिभद्रचरित्रमिति स्पष्टं प्रतिभाति । चरित्रवस्तु चारित्ररत्नस्य दानप्रदीपे (१२ प्र० पृ. १९०-१९४) द्रष्टव्यम् ।
कालकाचार्यकथा(प्रा०) क्र. ७(२),२३६(२),२६६(२) एतत् पञ्चमीतश्चतुया पर्युषणापर्व प्रचारयितुश्चरितम् । पर्युषणाकल्पसूत्रप्रान्ते प्रभावकचरित्रादौ च संस्कृते निर्दिष्टा कथाऽस्या रूपान्तररूपा । अज्ञातकर्तृनामधेया P. P. १३,१७, १८,२९,३०,५१,६९, ३।२६,२२५, ५।५३ इत्यत्र सूचितासु केयमिति स्फुटं न ज्ञायते । सं. १२९४ मुनिसुव्रतचरित्रम् । पद्मप्रभसूरिः क्र. ८५,२३१,२३९.
[P. P. ३।३०२] अन्धकारोऽयं चान्द्रकुलीनविबुधप्रभसूरिशिष्यः, येन कुन्थुनाथचरितमपि प्रणीतम् । क्र. २३१ निर्दिष्टपुस्तकप्रान्ते सं. १३०४ वर्षे याऽस्य परिपूर्णता प्रादर्शि, सा लेखनेनेति प्रतिभाति; ग्रन्थरचना तु सं. १२९४ रूपा स्वयं ग्रन्थकारेण प्रतिपादिता । पार्श्वस्तव-भुवनदीपकादि. ग्रन्थकारोऽयमेव वाऽन्य इति न निश्चीयते ।
१ 'धन्यशालिभद्रचरित्रं पूर्णभद्रगणिना १२८५ वर्षे कृतं श्लोकाः १४६०'-. २ “सूरि जिनेश्वरगुरुं जिनतीर्थयात्राऽभ्यायातसङ्घसहितं समरजयद् यः।
श्रीस्तम्भतीर्थनगरे वरजल्पकेलौ निर्जित्य वादियमदण्डदिगम्बरेशम् ।। स श्रीसूरप्रभसमभिधो बुद्धिधामाऽभिषेको
ज्ञाता नाम खमिव निखिला लक्षणाद्याश्च विद्याः। स्फायज्यायस्त्वरितकवितानिर्मिती ब्रह्मकल्पो
विद्यानन्दं शिशुमिव भृशं हेलयाऽभाणयन्माम् ॥-अभयकुमारचरित्रप्रशस्तिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org