________________
जैनधर्मकथाचरितानुयोगः ] ४५
सं. ११२३ विलासवईकहा । साधारणः क्र. १३१,१६७ साधारणाका एकादशसन्धिमयाऽपभ्रंशभाषानिबद्धेयं कथा 'समराइञ्चकहा'नाम्ना सुप्रसिद्धायाः कथाया उद्धृतेति खयमन्त्र कविना प्रोक्तम् । कथावस्तुज्ञानार्थ समरादित्यकथायाः पञ्चमभववर्णनं विलोकनीयम् । ग्रन्थकारः स्वस्थ कोटिकगण-वज्रशाखाभवबप्पभटिसूरिसन्तानीयत्वं यशोभद्रसूरिगच्छीयत्वं च समदर्शयत् । कविः 'साधारण' इति नाना पूर्व सुप्रसिद्ध भासीत् , तान्नैव चानेन विनिर्मितानि बहुविधानि स्तुतिस्तोत्राणि देशेषु पव्यमानान्यासन् । पश्चात् तु सिद्धसेनसूरिरिति नाम प्रतिष्ठितमित्यस्याः प्रान्तोल्लेखदर्शनेन ज्ञायते । [सं. ११३९] ले. सं. १२४२ महावीरचरियम् । गुणचन्द्रगणिः
क्र. ३०५ [P. P. ३।३०५:५।३२] अष्टप्रस्तावयुक्तं प्राकृतभाषानिबद्धं द्वादशसहस्त्रश्लोकसङ्ख्यमेताहग् महन्महावीरचरितं नान्येन कविना रचितं दृश्यते श्रूयते वा । चरितकारोऽयं कविः सुमतिवाचकस्य शिष्यः। नवाङ्गवृत्ति. काराभयदेवसूरिशिष्यप्रसचन्द्रसूरिवचनेनास्य रचनेत्यादि विस्तृतया प्रान्तप्रशस्त्या प्रकटमवगम्यते । अनेन गुणचन्द्रगणिना संवेगरङ्गशालाप्रतिः संस्कृताऽऽसीदिति तत्प्रान्तोल्लेखाज्ज्ञायते । [सं. ११६० ] ले. सं १३३९ आदिनाथचरित्रम् । वर्धमानाचार्यः
क्र. ३३४ [P. P. ५।८१] तम्भतीर्थेऽस्य रचना । एकादशसहस्रलोकप्रमाणं पञ्चावसरविभक्तं प्राकृतभाषानिबद्धमेतत् । एताप विस्तृतं प्रथमजिनचरितं नान्यकविकृतं दृष्टं श्रुतं वा । मध्ये चान कचित् कचिदपभ्रंशभाषाऽपि प्रयुक्का दृश्यते । अयं वर्धमानाचार्यों नवाङ्गीवृत्तिकाराभयदेवसूरेः शिष्यः, येन सं. ११४० वर्षे निर्मितमपरं प्रा. मनोरमाचरित्रं श्रूयते, सं. ११७२ वर्षे निर्मिता धर्मरत्नकरण्डवृत्तिश्च प्रसिद्धा ।
-
-
१ नंदसिहिरुसंखे वोकंते विकमाउ कालम्मि ।
जेट्ठस्स सुद्धतईयातिहिम्मि सोमे समत्तमिमं ॥-महा. प्र. P. P. ५।३६ २ 'वीरचरित्रं प्रा० ११३९ वर्षे गुणचन्द्रगणिकृतम् १२०००-६० ३ विकमनिवकालाउ सएमु एकारसेसु सहेसु । सिरिजयसिंहनरिंदे रज्जं परिपालयतम्मि ॥ खंभाइत्थट्ठिएहिं सियपक्खे चित्तविजयदसमीए ।
पुस्सेणं सुरगुरुणो समत्थियं चरियमेयं ति ॥ P. P. ५।८१ ४ 'श्रीआदिनाथचरित्रं प्राकृतं जयसिंहदेवराज्ये ११६० वर्षे वर्धमानसूरिरचितम्
११०००-६० ५ "सत्तर्कन्यायच चिंतचतुरगिरः श्रीप्रसन्नेन्दुसूरिः
सूरिः श्रीवर्धमानो यतिपतिहरिभद्रो मुनिर्देवभद्रः । इत्याद्याः सर्व विद्यार्णवकलशभुवः संचरिष्णूरकीर्तिस्तम्भायन्तेऽधुनाऽपि श्रुतचरणरमारजिनो यस्य शिष्याः ॥"
-चित्रकूटीयवीरजिनचैत्यप्रशस्तौ जिनवल्लभसूरिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org