________________
जैनोपदेशप्रन्थाः ]
३७
विहितात् 'जिनेश्वरसूरिदीक्षाविवाहवर्णनरास(गू.)' ग्रन्थात् , खरतरगच्छपट्टावल्यादेश्वोपलभ्यते । 'सटिसय'नामकप्रकरणविधातुर्मरुकोट्टनिवासिनो नेमिचन्द्रभाण्डागारिकस्यायं पुत्र मासीत् । अस्य जन्म सं. १२४५ वर्षे, दीक्षा सं. १२५५ वर्षे, सूरिपदं सं. १२७८ वर्षे, स्वर्गमनं सं. १३३१ वर्षे ख० दर्शितम् । 'वीरप्रभ'इत्यस्य दीक्षाकालिकं नामात्र (पृ. २) सूचितम् । अस्य जिनप्रबोध. सूरि-जिनरत्नसूरि-लक्ष्मीतिलकोपाध्यायाभयतिलकोपाध्याय-चन्द्रतिलकोपाध्याय-देवमूर्युपाध्याय-पूर्णकलशगणि-विवेकसमुद्रगणि-सर्वराजगण्यादयोऽनेके विद्वांसो ग्रन्थकाराः शिष्या आसन् । एतैरन्यैश्चैतदाज्ञाधारिमिर्जिनपतिसूरिशिष्यैर्जिनपालोपाध्याय-पूर्णभद्रगणि-सुमतिगण्यादिभिः स्वस्खग्रन्थेषु प्रस्तुतोऽयं सूरिः प्रस्तुतः । अस्य वीजापुरागमनादिवृत्तान्तः सङ्घपुरस्थशिलालेखादभयकुमारचरितप्रान्तप्रशस्तितश्च प्रकटमवगम्यते, विस्तरभयामात्र विविच्यते । क्र. १६२(२), १६८(२) इत्यत्र निर्दिष्टं 'सावगधम्म' पुस्तकं तु हरिभद्रसूरीयप्रथमपञ्चाशकाद् भिन्नं न विभाव्यते ।
सम्यक्त्वालङ्कारः अस्य कर्ता विवेकसमुद्रगणिरित्यन्यत्र (ही.) सूचितम् । जिनेश्वरसूरेः संसरणमकार्यतानेनेति सम्भाव्यते स एव सं. १३३४ वर्षे पुण्यसारकथाकारोऽस्यापि कर्ता ।
जैनोपदेशमन्थाः । उपदेशपदम् । हरिभद्रसूरिः क्र. २८,४८,१७७(२) [P. P. १।३४,३।४६] मुनिचन्द्रसूरिकृतटीकासमन्वितं गूर्जरानुवादसहितमपूर्णरूपमेतन्मुद्रितम् । अयं ग्रन्थकार• श्रतुर्दशशतप्रकरणप्रणेतृत्वेन विरहाङ्कस्वेन च सुप्रसिद्धः स एव ।
टी. सं. १०५५ उपदेशपट्टीका । वर्धमानसूरिः क्र. ४८,५१ पूर्वसूचितस्येयं टीका । टीकाकारोऽयं चैत्यवासिविजेतृत्वेन, सं.१०८० वर्षेऽष्टकवृत्यादिकर्तृत्वेन च सुप्रसिद्धस्य जिनेश्वरसूरेः, सं. १०८० वर्षे बुद्धिसागरव्याकरणविधातृत्वेन प्रसिद्धस्य बुद्धिसागरसूरेश्च गुरुआयते । उपमितिभवप्रपञ्चानामसमुच्चयः, उपदेशमालाबृहद्वृत्तिश्चास्य कृतियिते । यस्य वचनादस्याः प्रथमा प्रतिराम्रदेवमुनिनाऽलेखि, येन च वृत्तिकारस्य स्तुतिः प्रान्ते वर्णिता स पार्थिलगणिर्नागेन्द्रगच्छीयो ज्ञायते; यस्कृतप्रतिमाप्रतिष्ठायाः शकसं. ९१०-वि. सं. २०४५ वर्षीयो लेखः कटीग्रामे उपलभ्यते ।
नाणाचि(इ)त्तम् । क्र. ३०९(५) [P. P. ११४८] एतद् विरहातहरिभद्रसूरिकृतिगणनायां गण्यते । ले. सं. १३४५ धर्मोपदेशमाला क्र. २५(२) [P. P. ११४७,५५,
६४,७०,५।८०] इयं कृष्णर्षिशिष्यजयसिंहसूरिणा विरचितेत्यन्यत्र समसूचि । धर्मोपदेशमालाप्राकृतटीका
क्र. ११२ धर्मोपदेशमालावृत्तिः । जयसिंहाचार्यः । आराधना
क्र. २५१(३)
१ 'उ(? धर्मो)पदेशमालावृत्तिः प्राकृता कृष्णर्षिशिष्यजयसिंहसूरिकृता ९१३ वर्षे ।'-६० २ 'धर्मोपदेशमालालघुवृत्तिः ९१५ वर्षे जयसिंहीया ।'-बृ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org