SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ३६ [ अप्रसिद्ध ० अयं दशदृष्टान्तविभूषितो ज्ञानदर्शनगुणविशोधक: प्राकृतग्रन्थः समस्तशास्त्रेभ्य उद्धृत्य विहित इति स्वयं कर्ताऽत्र दर्शितम् । अस्य रचना - लेखनसमयः प्रायः समान एव विलोक्यते । सुखबोधा सामाचारी | श्रीचन्द्रसूरिः क्र. १७ [PP. ५ | ६४ ] अस्याः कर्तुर्नाम धनेश्वरसूरिरिति दलालेन दर्शितम्, किन्वेन्यत्र धनेश्वरसूरिशिष्यश्रीचन्द्रसूरेः कर्तृत्वं प्रदर्शितमुपलभ्यते, तदेव सम्यक् प्रतिभाति । अयं श्रीचन्द्रसूरिः स एव यस्य सामान्यावस्थायां पार्श्वदेवगणनामासीत् । द्वादशशताब्द्युत्तरार्धे त्रयोदशशताब्दीप्रथम शे विद्यमानोऽयमत्र (पृ. २१ ) परिचायितः । सामाचारी । तिलकाचार्यः क्र. १८५ इयं पूर्णिमापक्षीया सम्भाव्यते, यतोऽयं तिलकाचार्य श्चन्द्रप्रभसूरिलन्ता नीय: पूर्णिमापक्षीयत्रयोदशशतान्युत्तरार्धे चतुर्दशशताब्दीप्रारम्भे च विद्यमानो विज्ञायते यस्यान्ये ग्रन्थाः पूर्व (पृ. २० ) सूचिताः । क्र. ७ ( ३ ) इत्यत्र सूचिता साधुसामाचारी तु कल्पसूत्रसम्बद्धा मुद्राभाति । [वृ. सं. १२७७] २ सम्यक्त्वप्रकरणवृत्तिः । चक्रेश्वरसूरि-तिलकाचार्यौ पृ. ५५ मूलं पूर्णिमापक्षप्रकाशयितृ - प्रमेय रत्न कोशा दिविनिर्मातृचन्द्रप्रभसूरिविरचितं दर्शनशुद्धीत्यपरनाम्ना प्रसिद्धं देवभद्रसूरिकृतवृत्त्या समेतं मुद्रितं तदेव ज्ञायते । अस्या वृत्तेः प्रारम्भश्चक्रेश्वरसूरिणा कृतः, किन्तु दैववशादनिर्वाहितायामेवास्यां दिवं गतेऽस्मिन् तस्प्रशिष्य तिलकाचार्येणेयं निर्वाहिता । तिलकाचार्यस्तु पूर्वोक्त एव । श्रावक दिनकृत्यवृत्तिः क्र. १५ [ P. P. १।१३,४१] तपागच्छीयजगच्चन्द्रसूरिशिष्यदेवेन्द्रसूरेः कृतिरियमित्यन्यत्र तनिर्मितग्रन्थानां नामावल्यां प्रदर्शिता । यस्य स्वर्गमनं सं. १३२७ वर्षे इति गुर्वावत्यादावुक्तम् । सं. १३१३ श्रावकधर्मप्रकरणम् । जिनेश्वरसूरि : क्र. ३०१ (६) अस्य रचना प्रह्लादनपुरे । जाबालिपुरे सं. १३१७ वर्षे रचिताऽस्य बृहद्वृत्तिरपि श्रूयते । अयं सूरिचर्यो जिनपति सूरिशिष्य इति त्वत्र सूचितम् । विशेषवृत्तान्तस्तु सोममूर्तिगणिना १ "सिरिसीलभद्दसूरि णेसर पूरि सिस्स सिरिचंद सूरि समुद्ध रिया सू (सु) ह बोहसमायारी समत्ता ।” P. P.५/६४ 'सामाचारी सुबोधा सर्वानुष्ठानगोचरा धनेश्वर शिष्य श्री चन्द्रीया १४५० -१२२१ । —बृ० २ 'सम्यक्त्ववृत्तिः सूत्रकारचन्द्रप्रभसूरिसन्तानीयश्रीतिलकीया १२७७ वार्षिकी ८०००।- बृ० ३ " सारवृत्तिदशाः कर्मग्रन्थदीपास्त मोहराः । तस्य प्रवचनावासे भान्ति प्रेष्टार्थदर्शकाः ॥ नानास्तवनप्रकरणरत्नानि समुद्धृतानि समयाब्धेः । पुरुषोत्तमेन तेनालङ्कृतये शासनस्यासन् ॥ पञ्चाशिका सिद्ध विचारवाच्या भाष्याणि वृत्तं च सुदर्शनायाः । उपासकानां दिनकृत्य सूत्रवृत्ती च टीकाऽपि च धर्मरत्ने ॥ देवेन्द्राका श्राद्धयामोद्यभङ्गिग्रन्थाद्याऽन्याऽप्यस्त्यनेकाऽस्य सृष्टिः । एवं नानाग्रन्थसोपानपङ्क्त्या खारोऽहं तन्मुक्तिसौधं व्यधात् सः ॥" Jain Education International गुर्वावल्यां मुनिसुन्दरसूरिः । For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy