SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ [अप्रसिद्ध चन्द्रर्षिमहत्तरविरचितं मूलं मलयगिरिरचितया वृत्या समेतं मुद्रितम् । टिप्पनमेतत् प्राचीनाचूर्णीरनुसृत्य व्यधायीत्येतत्प्रान्ते प्रोक्तम् । टिप्पनकारोऽयं जिनवल्लभसूरेः शिष्यः, यस्यान्यदपि षडशीतिटिप्पनकमने दर्शितम् । द्वादशशताब्या उत्तरार्धेऽस्य रचना सम्भाव्यते । ले. सं. १२४६ षडशीतिटिप्पनकम् । रामदेवगणिः पृ. ४५ अस्य मूलं जिनवल्लभसूरिविरचितं टीकाद्वयोपेतं मुद्रितम् । वस्तुविचारसारेस्यस्यैवापरं नाम । प्रा० टिप्पनकर्ताऽयं मूलकारस्यैव शिष्य इत्यत्र गदितम् । पूर्ववदस्यापि रचना द्वादशशताब्या उत्तरार्धेऽनुमीयते (सं. ११७३ वर्षे!)। सं. १२९५ वर्षे सुमतिगणिरिमं गणिनं सूक्ष्मार्थसारप्रकरणवृत्तिकृत्त्वेन. दर्शयामास । कागदपत्रास्मिकेयं प्रतिः प्राचीनाऽथवाऽत्र दर्शितो लेखन. संवत्सरः प्राचीनादर्शस्येति निर्णेतुं न साधनम् । जीवसमासः क्र. ३०९(१) जीवाजीवादिस्वरूपप्रतिपादकोऽज्ञातकर्तृनामाऽयं प्राचीनो ग्रन्थः, यतोऽस्य शीलानाचार्यमलधारिहेमचन्द्रकृते वृत्ती उपलभ्येते । सं. ११६४ वर्षे स्वयं मलधारिहेमचन्द्रसूरिणा लिखिता सवृत्तिकस्यास्य तालपत्रीया प्रतिः स्तम्भतीर्थे विद्यते 'P. P. १११८' इत्यत्र सूचिता । ले. सं. १२२२ विभत्तिवियारो(विचारमुखप्रकरणम् ) । अमरचन्द्रसूरिः क्र. २४९(२) कोऽयममरचन्द्रसूरिरिति न निर्णीयते, नागेन्द्रगच्छीयः सम्भवेत् । वृ. सं. ११३९, ले. सं. १२०१ सङ्ग्रहणीवृत्तिः । शालिभद्रसूरिः क्र. ९८,१७७(१) [P. P. ५१४१,१३३1 मूलमात्रेयं जिनभद्रगणिक्षमाश्रमणकृता मलयगिरिविहितवृत्तियुता मुद्रिता । अयं वृत्तिकारः थारापद्रपुरीयगच्छीयपूर्णभद्रसूरिशिष्य इत्याधन प्रोक्तम् ; 'P. P. ५।१३२-३. इत्यत्र शालि. भद्रस्थाने 'शीलभद्र' इति दर्शितम् , तन्न सुष्टु । सं. ११२२-२५ वर्षे प्रतिक्रमणसूत्रपदविवृति-रुदटालङ्कारटिप्पनकारो नमिसाधुरस्य शिष्यो ज्ञायते। सङ्ग्रहणीवृत्तिः ( हारिभद्री) क्र. २६८(३) मूलं प्रागुक्तं तदेव । वृत्तिकारोऽयं कैश्चिञ्चतुर्दशशतप्रकरणकारः प्राचीनो हरिभद्रसूरिरित्यन्यत्रोल्लिखितः, किन्तु सिद्धराजराज्ये विद्यमानो बृहद्च्छीयमानदेवसूरिशिष्यजिनदेवोपाध्यायस्य शिष्योऽयमपरो हरिभद्रसूरिः सम्भाव्यते । येन सं. ११७२ वर्षे बन्धस्वामित्व-षडशीत्यादिकर्मग्रन्थवृत्तिः, मुनिपति चरित-श्रेयांसचरिते, सं. ११८५ वर्षे प्रशमरतिवृत्तिरित्यादि विहितम् ; स एवास्या वृत्तिकार इत्यस्मदाकूतम् । १ 'वस्तुविचारसाराख्यबृहत्षडशीतिकस्य जैनवल्लभस्य वृत्तिः प्राकृता रामदेवी ८०५।'-वृ० २ “स हि भगवान् (जिनवल्लभसूरिः). यस्य शिरसि स्वहस्तपनं ददाति, स जडोऽपि रामदेवगणिरिव वदनकमलावतीर्णभारतीकोऽत्यन्तदुर्बोधसूक्ष्मार्थसारप्रकरणवृत्तिं विरचयति ।" –णधरसार्धशतकवृत्तिः H. ३ "बृहत्सङ्ग्रहणीवृत्तिः ११३९ वर्षे शालिभद्री २८००-२५०० ।-बु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy