________________
२७
जैनवादग्रन्थाः ]
ले. सं. १२०२ द्रव्यालङ्कारवृत्तिः । रामचन्द्र-गुणचन्द्रौ क्र. ९५ परिपूर्णोऽयं ग्रन्थः प्रकाशन यात्मकः, किन्वत्र केवलं द्वितीय-तृतीयावेव प्रकाशाववलोक्येते । तृतीयप्रकाशोऽप्यपूर्णः, वृत्तिसमन्वितोऽयं नान्यत्रोपलभ्यते । मूलमात्र एव बृ. कर्जा सूचितः । भन्न प्रथमप्रकाशे जीवद्रव्यम्, द्वितीये पुद्गलप्रकाशे पुद्गलद्रव्यम् , तृतीयेऽकम्पप्रकाशे च त्रीणि धर्माधर्माकाशद्रव्याणि प्रमाणप्रतिष्ठिता नि । आभ्यामेव विद्वन्द्यां सम्मील्य नाट्यदर्पणं विरचितम् । एतयोश्च पं. रामचन्द्रः प्रेवन्धशतकर्तृत्वेन प्रसिद्धः सिद्ध हेमशब्दानुशासनविधातुः सुप्रसिद्धस्य हेमसूरेः शिष्यः, स्वयं चानेन ज्ञापितमेतदन्यत्र निजकृतौ । प्रभावकचरितादावयं हेमसूरिपट्टधरत्वेन वर्णितः । रचना स्वस्य द्वादशशताब्द्युत्तरार्ध इत्यनुमानं न दोषावहम् । कुमारविहारशतकम् , कौमुदी मित्राणन्दम् , द्वात्रिंशिकाः, नलविलासः, निर्भयभीमव्यायोगः, मल्लिकामकरन्दः(?), यादवाभ्युदयः, रघुविलासः, राघवाभ्युदयः, सत्यहरिश्चन्द्रम् इत्याद्याऽस्यानल्या कृतिर्विदुषां मनांसि हरति । अस्य च सहकारी कोऽयं गुणचन्द्रः ? हैमविभ्रमवृत्तिकारो वादिदेवसूरिशिष्योऽथवा हेमसूरेरेव शिष्यो येन सं. १२४१ वर्षे सोमप्रभाचार्यसन्दर्भितः कुमारपालप्रतिबोधः श्रुत इति विशिष्टप्रमाणं विना निर्गतुं दुःशकम् , समयविचारे वादिदेवसूरिशिष्येण साकमस्य सङ्गतिविशेषतो घटते ।
जैन-वादग्रन्थाः । ले. सं. १२१५ बोटिकनिराकरणम् [ हरिभद्रसूरिः] क्र. २४८(१) बोटिकानां दिगम्बराणां मतमत्र खण्डितम् । C. प्रतिप्रान्ते 'कृतिरियं हरिभद्रसूरेः' इत्युल्लेखो वर्तते । अयं च सूरिः सुप्रसिद्धश्चतुर्दशशतप्रकरणकारी याकिनीमहत्तराधर्मपुत्रो ज्ञायते। वादस्थलम् । प्रद्युम्नसूरिः
पृ.६०
१ 'द्रव्यालङ्कारस्तर्कः पं. रामचन्द्रगुणचन्द्रकृतः ४०० ।-बृ. २ 'रामचन्द्रकृतं प्रबन्धशतं द्वादशरूपकनाटकादिखरूपज्ञापकम् ।'–प्राचीनपत्रे ३ “सूत्र-मारिष! श्रीसिद्धहेमचन्द्रामिधानशब्दानुशासनविधानवेधसः श्रीमदाचार्य
हेमचन्द्रस्य शिष्ये(प्यं) रामचन्द्रमसि पि) जानासि ? । चन्द्र० ( साक्षेपम् )पञ्चप्रबन्धमिषपञ्चमुखानकेन विद्वन्मनःसदसि नृत्यति यस्य कीर्तिः ।
विद्यात्रयीचणमचुम्बितकाव्यतन्द्रं कस्तं न वेद सुकृती किल रामचन्द्रम् ? ॥ किं तु(नु) द्रव्यालङ्कारनामा प्रबन्धोऽनमिनेयत्वेन तावदास्ताम् । अपरेषां राघवाभ्युदय-याद. वाभ्युदय-नलविलास-रघुविलासानां चतुर्णा रमणीयतमसध्यङ्गनिवेशानां विशदप्रकृतीनां पुनर्मध्ये कुत्र प्रजानामनुरागः ? ।"-रघुविलासे P. P. ५।१४४
४ "हेमसूरिपदपङ्कजहंसैः श्रीमहेन्द्रमुनिपैः श्रुतमेतत् ।
वर्धमान-गुणचन्द्रगणिभ्यां साकमाकलितशास्त्ररहस्यैः ॥"-कुमारपालप्रतिबोधप्र. ५ 'बोटिकनिषेधो वनव्यवस्थापनरूपः।'---बृ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org