SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ [अप्रसिद्ध पाक्षिक(भावश्यक)सप्ततिः, कर्मप्रकृतिचूर्णिटिप्पनकम् , गाथाकोषः, मोक्षोपदेशपञ्चाशत् , कुलकानि इत्याद्याऽनल्पा कृतिरस्य सूरिवर्यस्य प्रतिभापटुत्वं प्रकाशयति । 'सं. ११७८ वर्षेऽयं सूरिर्दिवं जगाम । श्रीधरभा० महाशयेनास्य लेखनकालो रचनाकालत्वेन निर्दिष्टः, स तु समयसाम्या प्रान्तिभवोऽवभासते। . न्यायग्रन्थः क्र. ८४(३) अनिर्दिष्टप्रन्थ-ग्रन्थकृदभिधानोऽयं जैनन्यायग्रन्थद्वयेन साकमेकस्मिन् पुस्तके दर्शितस्वात् कश्चिजैनन्यायग्रन्थ इति सम्भाव्यते। प्रेमाणमीमांसा [ हेमचन्द्राचार्यः] क्र. ८४(१) कुमारपालभूपालप्रतिबोधकस्य सुप्रसिद्धस्य हेमचन्द्राचार्यस्येयं कृतिद्धितीयपरिच्छेदस्य प्रथमाह्निकं यावन्मुद्रिता । परिपूर्णा स्वियं पञ्चपरिच्छेदास्मिकेति ग्रन्थप्रारम्भे प्रोक्तं प्रौढपाण्डित्यशालिनाऽनेन स्वयमेव । सूरिपुङ्गवस्यास्य जन्म सं. ११४५ वर्षे, दीक्षा सं. ११५० वर्षे, सूरिपदं सं. ११६६ वर्षे, स्वर्गमनं च सं. १२२९ वर्षे इति प्रभावकचरित्रादिष्वनेकेषु ग्रन्थेषु तञ्चरित्रेण साकं प्रदर्शितम् । एतदतिरिक्ताऽद्यावधि ज्ञाता चेयं सूरिशिरोमणेरस्य कृतिःसिद्धहेमशब्दानुशासनम् (सवृत्ति) । अभिधानचिन्तामणिः (सवृत्तिकः) काव्यानुशासनम् अनेकार्थसङ्ग्रहः छन्दोऽनुशासनम् निघण्टुः (सशेषः) लिङ्गानुशासनम् देशीनाममाला (सवृत्तिः) वादानुशासनम् योगशास्त्रम् (सवृत्ति) धातुपारायणम् त्रिषष्टिशलाकापुरुषचरित्रम् महार्णवन्यासः परिशिष्टपर्व अयोगव्यवच्छेदद्वात्रिंशिका ब्याश्रयमहाकाव्यम् (सं.प्रा.) अन्ययोगव्यवच्छेदद्वात्रिंशिका सप्तसन्धानमहाकाव्यम् महझीतिः वीतरागस्तोत्रम् , महादेवस्तोत्रम् १ "अष्टह्येशमिते ११७८ ऽन्दे विक्रमकालाद् दिवं गतो भगवान् । श्रीमुनिचन्द्रमुनीन्द्रो ददातु भद्राणि सङ्घाय ॥"-गुर्वावल्यां मुनिसुन्दरसूरिः । २ 'प्रमाणमीमांसासूत्रवृत्ती हेमसूरीये सू०.............'-. "व्याकरणं पञ्चाङ्गं प्रमाणशास्त्रं प्रमाणमीमांसा । छन्दोऽलङ्कतिचूडामणी च शास्त्रे विभुळधित ॥ एकार्थानेकार्थी देश्या निर्घण्ट इति च चत्वारः। विहिताश्र नामकोशा भुवि कवितानापाध्यायाः॥ त्र्युत्तरषष्टिशलाकानरेशवृत्तं गृहिव्रतविचारे। अध्यात्मयोगशास्त्रं विदधे जगदुपकृतिविधित्सुः ॥ लक्षणसाहित्यगुणं विदधे व द्याश्रयं महाकाव्यम् । चक्रे विंशतिमुच्चैः स वीतरागस्तवानां च ॥ इति तद्विहितप्रन्थसङ्ख्यैव न हि विद्यते । नामापि न विदन्त्येषां मादृशा मन्दमेधसः ॥" -प्रभावकचरित्रे (हेमचन्द्रप्रबन्धे ) प्रभाचनसूरिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy