________________
[ अप्रसिद्ध
खरतरगच्छीयैविप्रतिपाद्यमानमाशापल्लीयोदयन विहारमूर्तीनां वन्दनाहत्वमत्र साधितम् । ग्रन्थकारोऽयं सुप्रसिद्धवादिदेवसूरिशिष्यस्य महेन्द्रसूरेः शिष्यस्त्रयोदशशताब्दीपूर्वार्धे विद्यमानः सम्भाव्यते । पितुः प्रबोधार्थमस्य रचनेत्यन्ते निगदितम् । सा.क्षेमन्धरोऽस्य पिता ज्ञायते।
प्रबोधोदयवादस्थलम् । जिनपतिसूरिः पृ. ६० पूर्वनिर्दिष्टस्य वादस्थलस्य खण्डनमेतत् । अत्र तासामेव मूर्तीनां वन्दनानहवं प्रतिपादितम् । ची. दलालेनानयोर्द्वयोरपि विषयः समानो दर्शितः, किन्तु परस्परमनयोर्विरुद्धो विषयः । यद् यत्पूर्वग्रन्थकारेण वादिना साधितम् , तत्तदनेन प्रतिवादिना विदाधितम् । गूर्जरत्रायामाशापल्लीपुरे पूर्व मेतद्विषयको वादोऽपि सभासमक्षमासीदित्येतत्प्रारम्भप्रान्त विलोकनादवगम्यते । अयं सूरिर्जिनचन्द्रसूरिशिष्यो जिनेश्वरसूरि-जिनपालोपाध्याय-सूरप्रभवाचक-पूर्णभद्रगणि-सुमतिगण्यादीनां गुरुः, येषां नैका कृतिरनान्यत्र दर्शिता । ख. पहावल्याद्यनुसारेणास्य सूरेजन्म सं. १२१० वर्षे, दीक्षा सं. १२१८ वर्षे, सूरिपदं सं. १२२३ वर्षे, स्वर्गमनं च सं. १२७७ वर्षे समजनीति ज्ञायते । सं. १२३३ वर्षेऽनेन कल्याणनगरे महावीरप्रतिमा प्रतिष्ठितेति तीर्थकल्पे जिनप्रभसूरिः । एतदतिरिक्ताऽस्य कृतिस्तीर्थमाला, सङ्घपट्टकटीका, पञ्चलिङ्गी विवरणमित्यादिका सुप्रसिद्धा ।
१ "इह केचिन्जिनपतिमतानुसारिणोऽप्यपारतमःस्तोमास्तसमस्तशेमुषीविशेषास्तत्तत्कदाग्रहप्रहा. हिलतया सकर्णाभ्यर्णप्रचारपरिहारपरवचःप्रपञ्चचातुरीधुरीणतया च जनितस्वजनमनोविश्लेषाश्चतु. त्रिंशदतिशयवतां भगवतामहंतामपि श्वेताम्बरय तिप्रतिष्ठिताखपि प्रतिमाखनभिवन्दनीयतामुपदिशन्ति तान् प्रतीदमनुमानमुपन्यस्यते।"-वा० प्रारम्भे H.
"ततश्च निःशेषदोषप्रमोषपोषितः परतीथि कापरिगृहीतत्वे सति श्वेताम्बरयति प्रतिष्ठिताईद्विम्बलादिति हेतुः खसाध्यं साधयन् न गीर्वाणप्रभुणाऽप्यपहस्तयितुं पार्यत इति ।"-वा० प्रान्ते H.
२ "इह हि भगवदागमेषु बहुधा निर्णीतमायतनानायतनविभागं धीशतया यथावदधिगामुका अप्यधीशतया कदभिनिवेशावेशास्कन्दितमानसा मानसानुमच्छिखराधिरोहप्ररोहदुच्चावचवचनाडम्बराः केचित् सिताम्बरा आयतनमेवाद्बिम्बं न तु कथञ्चिदनायतनमपीति बाहुदण्डमुद्धृत्य मुग्धेभ्यः प्रतिदिशमनिशमुपदिशन्तः श्रीगूर्जरत्रोदरे श्रीमदाशापल्लीपुरेऽसङ्ख्यसङ्ख्यावन्मुख्यस्वपक्षपरपक्षसामाजिकसमाजसमक्षं बहुशो निःप्रश्नव्याकरणीकृत्यास्माभिः सिद्धान्तरहस्यसुधारसं पायिता अपि भाग्य विपर्ययात् तमुद्वम्य खवसतिकोणके प्रविश्य प्रतिपदमसभ्यवाग्वर्षणेन स्वयमेव प्रकृतप्रमेयस्य सभानहतां सूचयन्त आजन्मप्रपीतोत्सूत्रसूत्रणविषोद्गारप्रकारं प्रेक्षावतामनुपादेयं प्रमेयं चिकीर्षन्तः प्रकृतिस्वच्छस्य कन्जलसन्निधेः कालिन्नावभासिनः स्फटिकस्येव निसर्गायतनस्य पार्श्वस्था दिपरिग्रहेणानायतनतया प्रतिभाखरस्यापि तस्यायतनत्वसिद्धयेऽनुमानप्रमाणमेवमुपन्य स्यन्ति । आशापल्लीवदनतिलकायमानोदयनविहारान्तर्वतीन्यर्हद्विम्बानि यति-गृहिणां वन्दनीयानि xx॥"
-प्रबोधोदयप्रारम्भे H. ३ "अतो गीर्वाणप्रभुणेत्यादि बद्वाक्यमुत्तानवावदूकप्रलापकल्पं तदेवमलमेभिर्भवत्प्रयुक्तैर्जात्युतरैरुन्मत्तप्रलापैरिव बालकेलिकारैः । यच्च सोऽयमभजि सभासदां समक्षमिति स्वयं खावदातोस्कीर्तनं तद्यद्याशापल्लयां तदा बदुपासकदण्डनायकश्रीअभयडप्रभृतिसभासदां समक्षं यदभूत् तत् सर्वत्र गूर्जरत्रायां प्रतीतम् । अथ खवसतिकोणके तदा खस्य गेहेनर्दिताप्रकाशनमात्रमेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org