SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ संथार 162 - अभिधानराजेन्द्रः - भाग 7 संथार विद्यादीनामभावे न ज्ञायते केनापि गृहीत इति, ततो भोगिकादीना कथयन्ति / संस्तारकोऽस्माकं नष्टो वर्तते, यूयं त गवेषयत / भोगिकः प्राह-केन गृहीतः, साधवो बुवते-न जानीमो वयम् / भोगिकः प्राह- | अज्ञायमानं कथं गवेषयामि / साधुभिर्वक्तव्यं दी? हि राजहस्तो भवति, तेन हि गवेष्यमाणः सुखेनैव स्तेनः प्राप्यते। ततो यो भद्रको भवति स आमं सत्यमिदमिति भणित्वा मार्गयति। प्रान्तः पुनरिदमाहजाणह जेणं हडो सो, कत्थति मग्गामिणं अजाणतो। इति पते अणुसिट्ठी, धम्मनिमित्ताइ तह चेव / / 956 / / यः प्रान्तः रन ब्रूयात्-जानीत यूय येनासौ संस्तारको हतः। अज्ञातेन तु कुत्राहं मार्गयामि / अज्ञकवदन्धवद्वा इति प्रान्ते ब्रुवाणे अनुशिष्टिधर्मकथानिमित्तादि तथैव प्रयोक्तव्यम्। असतीय भेसणं वा, भीया वा भोइयस्स व भएणं। साहिति दारमूले, पडिगीए इमेसु विछुभेजा / / 957|| अथ नास्ति तत्र भोगिकः, अस्ति वा परं न दापयति, तदा साधवो / भेषणं कुर्वन्ति / ततो भीता वा भोगिकस्य वा भयेन द्वारमूले संहरन्ति, संस्तारकं स्थापयन्तीत्यर्थः / यस्तु प्रत्यनीकः स एतेष्वपि पृथिव्यादिषु कायेषु प्रक्षिपेत् / यद्यस्माकं न जातस्तत एतेषामपि मा भूदिति कृत्वा। एष पुरातनगाथासमासार्थः। अथैनामेव व्याख्यातिभोइयमादीण सती, अहवा ते वि बिंतिजणपुरओ। मुण्हीहामो सकज्जे, किह लोगमयाइजाणंता।६५८।। भोगिकादीनामभावे तेषु वा संस्तारकमदापयत्सु साधवो बहुजनस्य पुरतो ब्रुवते। वयं लोकमभिजानन्तः स्वकार्ये कथं मुह्यामहे, यदि लोकस्य नष्ट विनष्टं विस्मृतं वा जानीमस्ततः कथमात्मीयं न ज्ञास्याम इति भावः / अतो यद्यस्माकं संस्तारकं नार्पयथ ततो वयं जनपुरतस्तं हस्ते गृहीत्वा दापयिष्यामः। अथ यूयं न प्रतीच्छथ ततःपेहुण तंदुलपव्वय-भीया साहति भोइगस्सेते। साहित्थि साहरंति व, दोण्ह विमा होउ पडिणीए / / 656| | तन्दुला द्विधा क्रियन्ते-एके 'पेहुणमिश्रिताः,' अपरे केवलाः एवा पेहुणं नाम-मयूराङ्ग पिच्छंतत एकः साधुःसाधूनां मध्यादपस-रति, गृहस्थांश्च भणति / युष्माकं मध्यादेकः किमुप्युपकरणं गृह्णातु ततो गृहीते सति स साधुरागत्य भणति युक्त्या सर्वेऽपि तिष्ठन्तु, स्थितेषु च स नैमित्तिकसाधुरुदकं तेषामञ्जलौ ददाति। येन च साधुना तत् गृह्यमाण दृष्ट स तन्दुलान् प्रयच्छन् येन गृहीतं तत्र पेहुणमिश्रितान् ददाति / ततो नैमित्तिकसाधुस्तानि पेहुणानि दृष्ट्वा भणति, अनेन गृहीतमिति / एवं प्रत्यये उत्पन्ने भीतश्चिन्तयति नूनमेते एवं ज्ञात्वा भोगिकस्य कथयिष्यन्ति / एवं विचिन्त्य स्वह-स्तेन प्रतिश्रयद्वारमूले संस्तारकं स्थापयन्ति। प्रत्यनीकता वा द्वयोरपि वर्गयोरस्माकममीषां च मा भूदिति बुद्ध्या एतेषु संहरन्ति। पुढवी आउक्काए, अगणिवणस्सइतसेसु साहरइ। चित्तूण यदायव्यो, अदिट्टे दिटे य दोचं पि॥९६०॥ कश्चित्प्रत्यनीकः साधुसामाचारीकोविदः सचित्तपृथिव्यष्कायवनस्पतित्रसेषु प्रक्षिप्ते न ग्रहीष्यतीति बुद्ध्या तेषु आगाढे वा गर्तयां प्रक्षिपति। यद्यप्येतेषु प्रक्षिप्तस्तथापि ततो गृहीत्वा संस्तारक-स्वामिनो दातव्यः / अथ प्रयत्नेन गवेषितोऽपि न कुत्राति दृष्टः / यद्वा-स प्रत्यनीकतया न ददाति ततो 'दोचं पि' त्ति द्वितीयमपि वारमवग्रहमनुज्ञापयेत् / परः प्राह-यथाऽहं भणामि तथा द्वितीया-वग्रहः अनुज्ञापनीयः / कथमिति चेदुच्यते-स संस्तारकस्वामी न ज्ञाप्यते , यया नष्टः संस्तारकः, किं तुगत्वा भणितव्यं देहि तं संस्तारकमिदानीमेष द्वितीयोऽवग्रह उच्यते। गुरुराहदिट्ठत पडिहणित्ता, जयणाए भद्दतो विसजेति। मगते यतणाए, उवहिग्गहणे ततो वाओ॥६६१|| दृष्टान्तो नाम-नोदकेन स्वमत्या योऽभिप्रायो दृष्टः, तं प्रतिहत्य निक्षेप्य संस्तारकस्वामिनो यतनया सद्भावः कथनीयः / कथिते च भद्रको विसर्जयति गच्छत नाह किंचिदपि भणामि / यः प्रान्तः स संस्तारकं मार्ग यति, तत्रानुशिष्टिःकर्त्तव्या / अथ नेच्छति तदा यतनया प्रान्तोपधितिव्यः। अथ बलादेव सारोपधिग्रहणं करोति ततो राजकुले विवादः कार्यः। अमुमेवार्थ व्याख्यातिपरवयणाऽऽउद्देउं, संथारं देहि तं तु गुरु एवं / आणेह भणति पंतो, तेणं दाणं न वादाहं / / 962 / / परः प्रेरक स्तस्य वचनमत्र भवति 'आउट्टे उं' ति धर्मकथया संस्तारकस्वामी आवर्त्य याच्यते। तसंस्तारकं नियाज प्रयच्छ। गुरुराहएवं मायया याचमानस्य चतुर्गुरुकम्। भद्रकप्रान्तकृताश्व दोषा भवन्ति। प्रान्तो भणति आनयत संस्तारकं ततो दास्यामि वा न वा। किंचदिजंतो विन गहिओ किं सुहसेओ इयाणि संजाओ। हियनट्ठो वा नूणं, अथक्कजायाएँथवयामो॥९६३।। दीयमानोऽपि तदानीं यो न गृहीतः किमसौ संस्तारक इदानीं सुखशय्यः संजातः / अनया अथक्याञ्चया अकालप्रार्थनया स्तवयामःस्तव कुर्मः / स नूनं हृतो वा नष्टो वा। भद्दो पुण अग्गहणं, जाणंतो वा वि विपरिणामेज्जा। किं फुडमेवं सीसइ, इमो हु अन्ने वि संथारा / / 964|| यः पुनर्भद्रकः साधुषु अग्रहणमनादरं कुर्यात्, यो वा जानाति संस्तारको हुतो -नष्टो वेति स सम्यग्दर्शनप्रव्रज्याद्यभिमुखो विपरिणमेत् अहो मायाविनोऽमी। विपरिणतो ब्रूयात्- किं स्फुट-मेवास्माकं न शिष्यतेन कथ्यते यथा संस्तारको नष्टः, किमेव मायया याच्यते ? इमो हुरिति प्रत्यक्षमुपलभ्यमाना अन्येऽपि संस्तारकाः सन्ति / इह चोयगदिटुंतं, पडिहाँ सिस्सते य सब्भावो।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy