SearchBrowseAboutContactDonate
Page Preview
Page 1327
Loading...
Download File
Download File
Page Text
________________ विहार 1303 - अभिधानराजेन्द्रः - भाग 6 विहार किंचपणपण्णगस्स हाणी, आरेणं जेण तेण वा घरई। जह तरुणा नीरोगा, वचंति चउत्थगं ताहे // 69l पञ्चपञ्चाशद्वार्षिकस्य मानुषस्य विशिष्टाहारमन्तरेण हानि:-बलपरिहाणिर्भवति / पञ्चपञ्चाशतो वर्षेभ्यः आरात् वर्तमानो येन वा तेन वा आहारेण ध्रियते निर्वहति।ततोयदिते साधवः करुणास्तथा नीरोगास्ततश्चतुर्थमेव क्षेत्रं व्रजन्ति, नशेषाणि। जइ पुण जुण्णा थेरा, रोगविमुका य साहुणो तरुणा। ते अणुकूलं खित्तं, पेसिंति न याऽवि खग्गूठे / / 700 / यदि पुनर्जीणाः पञ्चपञ्चाशद्वार्षिकादय इति भावः के ते स्थविरावृद्धाः, तथा तरुणा अपिये रोगेण ज्वरादिना मुक्तमात्रा अत एव क्षुधाऽसहिस्नवो नयदपि तदप्याहारजातं परिणमयितुं समर्थास्तानेवंविधांस्तुस्थविरतरुणाननुकूलं प्रायोग्यलाभ-संभवेन हितं क्षेत्र-प्रथमक्षेत्रादिकं गीतार्थमेकं ससहायं समर्थाः प्रेषयन्ति,ये नचाऽपि नैवखम्गूढा-अलसाः। स्निग्धमधुराद्याहारलम्पटाः खम्गूढा उच्यन्ते। आह-कियता पुनः कालेन ते वृद्धादयश्च पुष्टिं गृह्णन्ति। उच्यते--पञ्चभिर्दिवसः। तथा च वैद्यकशास्त्रार्थ सूचिकामेतदर्थविषयामेव गाथामाहएगपणगऽहमासं,सद्धीसुण मणुयगोणहत्थीणं / राइंदिएहि उबलं-पणगं तो एक दो तिमि // 701 / / क्षीणशरीरस्य शुनः-पोष्यमाणस्यैकेन रात्रिन्दिवेनबलमुपजायते, एवं मनुष्यस्य रात्रिंदिवपञ्चकेन गोबलीवर्दस्यार्द्धमासेन हस्तिनस्तु क्षीणवपुषः पुष्टिमारोप्यमाणस्य षष्ट्यादिवसैर्बलमुद्भवति / ततः एते वृद्धादयः प्रथमक्षेत्रे प्रोष्यमाणाः पञ्चकमेकं रात्रिंदिवानां व्यवस्थाप्यन्ते,ततश्चतुर्थक्षेत्रे नीयन्ते। अथपञ्चके-नामीन बलं गृहीतवन्तः ततः द्वेपञ्चके तथाऽपि बलमगृह्णानाः त्रीणि पञ्चकानि व्यवस्थाप्य चतुर्थक्षेत्रे नेतव्याः। एवं ते चतुर्थक्षेत्रगमनं निणीय शय्यातरमाच्छ्य क्षेत्रान्तरं संक्रामन्ति / तद्विषयं विधिमभिधित्सुराहसागारिय आपुच्छण, पाहुडिया जह य वजिता होइ। के वचंते पुरओ, भिक्खुणों उद हुआयरिया // 702 / / क्षेत्रान्तरं संक्रामद्भिः सागारिकस्याऽऽप्रच्छनं कर्त्तव्यं, य सा च प्राभृतिका हरिततच्छोभाद्यधिकरणरूपा वर्जिता भवति तथा विधिना आप्रच्छनीयं, तथा गच्छता के पुरतो व्रजन्ति, किं भिक्षवः उताहो आचार्या इति निर्वचनीयम्। एष द्वारगाथा-समास्वार्थः। अथैनामेव विवरीषुराहसागारिअणापुच्छण, लहुओ मासो उहोइनायव्यो। आणाइओ य दोसा, विराहणा इमेहि ठाणेहिं // 703|| सागारिकमनापृच्छय यदि गच्छन्ति तदा लघुको मासः प्रायश्चित्तं भवति-ज्ञातव्यः। आज्ञादयश्च दोषा विराधना वा मातृस्थाने प्रवचनादेर्भवति। तान्येवाहसागारिऽपुच्छगमणम्मि बाहिरा मिच्छगमणकयनासी। गिहिसाहू अभिधारण, तेणगसंकाय जं चऽन्नं // 704 / / सागारिकमनापृच्छ्य यदि गच्छन्ति ततः सागारिकश्चिन्तयेत्, 'बाहिर' त्ति बाह्या लोकधर्मस्यामी भिक्षवः। यतः-"आपुच्छिऊण गम्मइ. कुलं चसीलंच माणिओ होइ। अभिजाओ त्ति अभन्नइ, सोऽविजणोमाणिओ होइ॥१॥" एष लोकधर्मः / तथा-'मिच्छगमण' त्ति ये लोकधर्ममपि प्रत्यक्षदृष्टं नावबुद्ध्यन्ते ते कथमतीन्द्रियमदृष्टं धर्ममवभोत्स्यन्ते, इति सागारिको मिथ्यात्वं गच्छेत्। तथा कृतनाशिनः कृतघ्रा एते एकरात्रमपि हि यस्य गेहे स्थीयते तमनापृच्छ्य गच्छतां भवत्यौचित्यपरिहाणिः किं पुनरमीषामियान्त दिनानि मम गृहे स्थित्वा युक्तं मामनापृच्छ्य गन्तुमिति। तथा अन्यस्य प्रातिवेश्मिकस्य अपिशब्दात् सागारिकस्य वा हृते नष्ट वा करिमश्चिद्वस्तुनि स्तेनकशङ्का भवेत, यदमी साधवोऽनापृच्छय गतास्तन्नूनमेभिरेव स्तेनितं तद् द्रव्यमिति / 'जं चऽनं' त्ति यच्चान्यदसतिव्यवच्छेदादिभवति तदपिद्रष्टव्यम्। तदेवाऽऽहवसहीए वोच्छेदो,अभिधारिताण वाऽवि साहूणां। पध्वजाभिमुहाणं, तेणेहि व संकणा होला // 705 / / विप्रलम्भितास्तावदमीभिरेकवारम् अत ऊर्ध्वं ये केचित् संयता इति नामोदहन्ते तेभ्यो वसतिं न प्रदास्यामीत्येवं वसतेर्व्यवच्छेदो भवेत्, अभिधारयन्तो नाम ये साधवस्तमाचार्य मनसि कृत्वोप-सम्पदं प्रतिपत्त्यर्थं समायातास्ते सागारिकं प्रश्नयन्ति- आचार्याः कस्मिन् क्षेत्रे . विहृतवन्तः ? सागारिक आह-यः कथयित्वा व्रजति स ज्ञायते, यथा अमुकत्र गत इति / ये तु प्रथमत एव तावद्गच्छन्ति ते कथं ज्ञायन्ते ततस्तेषामभिधारयतां साधूनामहो लोकव्यवहारबहिर्मुखा अमी आचार्याः को नामीमीषामुपकण्ठे उपसम्पत्स्यते इति कृत्वा स्वगच्छे गणान्तरे वा गमनं भवेत् / स चाचार्यस्तेषां श्रुतवाचनादिजन्याया निर्जराया अनाभोगी भवति प्रव्रज्याभिमुखानां वा 'तेणहि' ति स्तेनविषया शङ्का भवेत् / किमुक्तं भवति- केचिदगारिणः संसारप्रपञ्चविरक्तचेतसस्तदन्तिके प्रव्रज्यां प्रतिपित्सवः समायाताः, सागारिक पृच्छन्ति, क्वगता आचार्याः ? सप्राह-वयं नजानीमस्तत्स्वरूपमिति / गतस्तेषां शङ्का जायते- यथा- नूनं किमपि सागारिकस्य चोरयित्वा गतास्ते, अन्यथा किमर्थमेष परिस्फुटमाचार्याणां गमनवृत्तान्तं न निवेदयतीति। ततश्च तेप्रव्रज्यामप्रतिपद्यमाना यत्षण्णां जीवनिकायानां विराधनां कुर्वन्ति। यथा छेटिकनिहवादिषु व्रजन्ति, अपरान्विप्रव्रजतो विपरिणामयन्ति, तनिष्पन्नमाचार्याणां प्रायश्चित्तम्। यत एवमतः सागारिकमापृच्छ्य गन्तव्यं सा च पृच्छा द्विविधा-विधिपृच्छा, अविधिपृच्छाच। तत्राविधिपृच्छामभिधित्सुः प्रायश्चित्तं तावदाहअविहीपुच्छणे लहुओं, तेसि मासो उ दोस आणाई। मिच्छत्त पुष्वभणिए, विराहण इमेहि ठाणेहिं // 706 //
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy