SearchBrowseAboutContactDonate
Page Preview
Page 1477
Loading...
Download File
Download File
Page Text
________________ भरह . 1466 - अभिधानराजेन्द्रः - भाग 5 भरह सुधामभिजयन् 2 अग्याणि-वराणि रत्नानि प्रतीच्छन् 2 तद्दिव्यं चक्ररत्नमनुगच्छन् 2 योजनान्तरिताभिर्वसतिभिर्वसन् 2 यत्रैव विनीता राजधानी तत्रैवोपागच्छती, तत्राऽऽगतः सन् यदकरोत्तदाह- 'उवागच्छित्ता' इत्यादि, व्यक्तं, नवरं विनीताया राजधान्या अष्टमभक्तमित्यत्र विनीताधिष्ठायकदेव साधनाय विनीता राजधानी मनसि कुर्वन् 2 अष्टमं परिसमापयतीत्यर्थःनन्विदमष्टमानुष्ठानमनर्थकं, वासनगर्याश्चक्रवर्तिना पूर्वमेव वश्यत्वात्? उच्यते-निरुपसर्गेण वासस्थैर्यार्थमिति यदाह'निरुवसम्गपच्चयत्थं विणीअंरायहाणिं मणसी करेमाणे 2 अट्ठमभत्तं पगिण्हइ' इति प्राकृत ऋषभचरित्रे, अथाष्टमभक्तसमाप्त्यनन्तरं भरतो यच्चक्रेतदाह- 'तएणं' इत्यादि, स्पष्ट, 'तहेव त्ति' पदसंग्रहश्वा-ऽऽभिषेक्यगजसजनमज्जनगृहमजनाऽऽदिरूप; अथ विनीता प्रवे-शवर्णके लाघवायातिदेशमाह-'तं चेव सव्यं' इत्यादितदेव सर्वं वाच्यं यथा 'हेवा'अधस्तनसूत्रे विनीता प्रत्यागमने वर्णनं तथा-ऽत्रापि प्रवेशे वाच्यमित्यर्थः, अत्र विशेषमाह-नवरं महानिधयो नव न प्रविशन्ति, तेषां मध्ये एकैकस्य विनीताप्रमाणत्वात् कुतस्तेषांतत्रावकाशः? चतरत्रः सेना अपि नप्रविशन्ति, शेषः स एव गमः- पाठो वक्तव्यः, कियत्पर्यन्तमित्याहयावन्निर्घोषनादितेन युक्तो विनीताया राजधान्या मध्यंमध्येनमध्यभागेन यत्रेव स्वकं गृहं यत्रैव च भवनवरावतंसकस्यप्रधानतरगृहस्य प्रतिद्वार-बाह्यद्वार तत्रैव गमनाय प्रधारितवान्- चिन्तितवान्, प्रवृत्तवानित्यर्थः, प्रविशति चक्रिण्याभियोगिकसुरा यथा 2 वासभवन परिएकुर्वन्ति तथाऽऽह- 'तएणं' इत्यादि, ततस्तस्य भरतस्य राज्ञो विनीता राजधानी मध्यभागेन प्रविशतः अपिवाढम् एके केचन देवा विनीतां साभ्यन्तरबाहिरिकाम् आसिक्तसम्मार्जितोलिप्तां कुर्वन्ति, अप्येकके तां मशातिमशकलितां कुर्वन्ति, अप्येकके नानाविधरागवसनोच्छ्रितध्वजपताकमण्डिताम्, अप्येकके 'लाउल्लोइअमहिता' कुर्वन्ति, अप्येकके गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलेत्यादिविशेषणां कुर्वन्ति, कियद्यावदित्याह-यावद गन्धवर्तिभूतां कुर्वन्ति, अमीषां विशेषणानामर्थः प्राग्वत्, अप्येकके हिरण्यवर्ष वर्षन्ति-रूप्यस्याघटितसुवर्णस्य वा वर्ष वर्षन्ति, एवं सुवर्णवर्ष रत्नवर्ष वज्रवर्षम् आभरणवर्ष वर्षन्ति, वज्राणिहीरकाणि, पुनः प्रविशतो राज्ञो यदभूत्तदाह- 'तए णं' इत्यादि। ततस्तस्य भरतस्य राज्ञो विनीतां राजधानी मध्यमध्येनानुप्रविशतः शृङ्गाटकाऽऽदिषु, यावच्छब्दादत्र त्रिकचतुष्काऽऽदिग़हः, महापथपर्यन्तेषु स्थानेषु बहवोऽार्थिप्रभृतयस्ताभिरुदाराऽदिविशेषणविशिष्टाभिर्वाग्भिरभिनन्दयन्तश्चाभिष्टुवन्तश्च एवमेवादिषुरिति सम्बन्धः / तत्र शृङ्गाटकाऽऽदिव्याख्या प्राग्वत् अर्थार्थिनोद्रव्यार्थिनः कामार्थिनोमनोज्ञशब्दरूपार्थिनः भोगार्थिनोमनोज्ञगन्धरसस्प आर्थिनः लाभार्थिनोभोजनमात्राऽदिप्राप्त्यर्थिनः ऋद्धि-गवादिसम्पदम् इच्छन्त्येषयन्ति वा ऋद्ध्येषाः, स्वार्थिककप्रत्ययविधानात्ऋद्ध्येषिकाः / किल्विषिकाः- परविदूषकत्वेन पापव्यवहारिणो भाण्डाऽऽदयः कारोटिकाकापालिकाः ताम्बूलस्थगीवाहका वा, करंराजदेयं द्रव्यं वहन्तीत्ये- | वंशीलाः कारवाहिनस्तएव कारवाहिकाः, कारवाधिता वा शाखिकाऽऽदयः शब्दाः श्रीऋषभनिष्क्रमणमहाधिकारे व्याख्याता इति ततो व्याख्येया इति / अथ ते किमवादिषुरित्याह-'जय जय नन्दा:' इत्यादि पदद्वयं प्राग्वत्, भद्रं ते-तुभ्यं भूयादितिशेषः अजितं प्रतिरिषुजय जितम्आज्ञावशंवद पालय, जितमध्येआज्ञावशंवदमध्ये वसतिष्ठ विनीतपरिजनपरिवृतोभूया इत्यर्थः, इन्द्र इव देवानांवैमानिकानां मध्ये ऐश्वर्यभृत, चन्द्र इव ताराणांज्योतिष्काणां चमर इवासुराणा दाक्षिणात्यानामित्यर्थः, एवं धरण इव नागानामित्यत्रापि ज्ञेयम्, अन्यथा सामान्यतोऽसुराणामित्युक्ते बलीन्द्रस्य नागानामित्युक्ते च भूताऽऽनन्दस्योपमानत्वेनोपन्यासो युक्तिमान् स्यात्, दाक्षिणात्येभ्य उदीच्यानामधिकतेजस्कत्वात्, बहूनि शतसहस्राणि यावद् वहीः कोटीः वहीः पूर्वकोटाकोटी: विनीतया राजधान्याः क्षुल्लहिमवगिरिसागरमर्यादाकस्य केवलकल्पस्य भरतवर्षस्य ग्रामाऽऽकरनगरखेटकर्वटमडम्बद्रोणमुखपत्तनाऽऽश्रमसन्निवेशेषु सम्यक् प्रजापालनेनोपार्जितसल्लब्धं निजभुजवीर्यार्जित, न तु नमुचिनेव सेवाऽऽधुपायलब्धं यशोयेनस तथा, 'महया जावत्ति' यावत्पदात् 'हयणट्टगीअवाइअतंतीतलतालतुडि-अघणमुईगपहुप्पवाइअरवेणं विउलाई भोगभोगाई भुंजमाणे' इति संग्रहः / आधिपत्यं पौरपत्यम् / अत्रापि यावत्पदात्- 'सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावचं कारेमाणे पालेमाणे त्ति' ग्राह्यम्, अत्र व्याख्या प्राग्वत, विचर इति कृत्वा जयजयशब्दं प्रयुञ्जन्ति। अथ विनीता प्रविष्टः सन् भरतः किं कुर्वन् छाऽऽजगामेत्याह 'तए णं से भरहे राया णयणमालासहस्सेहिं पिच्छिज्जमाणे पिच्छिज्जमाणे' इत्यादि, ततः सभरतो राजा नयनमालासहसः प्रेक्ष्यमाणः प्रेक्ष्यमाणः इत्यादिविशेषणपदानि श्रीऋषभनिष्क्रमणमहाधिकारे व्याख्यातानीति ततो ज्ञेयानि, नवरम् - अंगुलिमालासहस्सेहिं दाइजमाणे दाइजमाणे' इत्यत्रजनपदाऽऽगतानां जनानां पौरजनैरड्गुलिमालासहसैर्दीमान इत्यपि, यत्रैव स्वकं गृहपित्र्यः प्रसादः यत्रैव च भवनवरावतंसकंजगद्वर्त्तिवासगृहशेखरभूतं राजयोग्य वासगृहमित्यर्थः, तस्य प्रतिद्वारं तत्रैवोपागच्छति, ततः किं करोतीत्याह'उवागरिछत्ता-'इत्यादि, उपागत्य आभिषेक्यं हस्तिरत्नं स्थापयति, स्थापयित्वा च तस्मात्प्रत्यवरोहति, प्रत्यवरुह्य च विसर्जनीयजनो हि विसर्जनाधासरेऽवश्यं सत्कार्य इति विधिज्ञो भरतः षोडश देवसहस्रान् सत्कारयति समानयति. ततो द्वात्रिंशत राजसहस्रान्, ततः सेनापतिरत्नगृहपतिरत्नाऽऽदीनि त्रीणि सत्कारयति संमानयति, ततः त्रीणि षष्टानिषष्ट्यधिकानि सूपशतानिरसवतीकारशतानि ततः- अष्टादश श्रेणिप्रश्रेणीततः- अन्यानपि बहून राजेश्वरतलवराऽऽदीन् सत्कारयति, संमानयति, सत्कार्य संमान्य च पूर्णे उत्सवेऽतिथीनिवप्रतिविसर्जयति, अथ यावत्परिच्छदो राजा यथावासगृहं प्रविवेश तथाऽऽह'इत्थीय्यणेणं' इत्यादि, स्त्रीरत्नेनसुभद्रया द्वात्रिंशता ऋतुकल्याणिकासहसैा त्रिंशता जनपदकल्याणिकासहसैः द्वात्रिंशता द्वात्रिंशब्दबैनाटकसहसैः सार्द्धसंपरिवृतो भवनवरावतंसकमतीतिप्रविशति, प्राकरणि कत्वादनुक्तोऽपि भरतः कर्त्ता गम्यतेऽत्र वाक्ये, यथा
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy