SearchBrowseAboutContactDonate
Page Preview
Page 1476
Loading...
Download File
Download File
Page Text
________________ भरह 1468 - अभिधानराजेन्द्रः - भाग 5 भरह थ्यैः-आभरणैः सहिता इति, अबद्धसूत्रे च पदानि न्यूनाधिकान्यपि लिपिप्रमादात् सम्भवेयुरिति तन्नियमार्थ संग्रहगाथा सूत्रबद्धा क्वचिदादर्श दृश्यते / यथा "असिलट्ठिकुंतचात्रे, चामरपासे अ फलगपोत्थे / वीणाकूवग्गाहे, तत्तो य हडप्फगाहे अ॥१॥" 'तय णं' इत्यादि, ततो बहवो दण्डिनो दण्डधारिणः मुण्डिनः- अपनीतशिरोजाः, शिखण्डिनःशिखाधारिणः, जटिनोजटाधारिणः, पिच्छिनोमयूराऽऽदिपिच्छवाहिनः, हास्यकारका इति व्यक्तं,खंडंद्यूतविशेषस्तत्कारकाः, द्रवकारकाःकेलिकराः, चाटुकारकाः- प्रियवादिनः- कान्दपिका:-कामप्रधानकेलिकारिणः, 'कुकुइआ' इति-कौत्कुच्यकारिणो भाण्डाः, 'मोहरिआ' इति-मुखरा वाचाला असम्बद्धालापिन इति यावत्, गायन्तश्च गेयानि वादयन्तश्च वादित्राणि नृत्यन्तश्च हसन्तश्च रममाणाश्च अक्षाऽऽदिभिः क्रीडयन्तश्च कामक्रीडया शासयन्तश्चपरेषां गानाऽऽदीनि शिक्षयन्तः श्रावयन्तश्च-इदंचेदंच परुत्परारि भविष्यतीत्येवंभूतवचांसि श्रवणविषयीकारयन्तः जल्पन्तश्वशुभवाक्यानि रावयन्तश्च शब्दान् कारयन्तः स्वजल्पितान्यनुवादयन्त इत्यर्थः, शोभमानाश्च स्वयं शोभयन्तः परान् आलोकमानाश्चराजराजस्यावलोकनं कुर्वन्तःजयजयशब्दं च प्रयुञ्जानाः पूरतोयथानुपूर्व्या पूर्वोक्तपाठक्रमेण सम्प्रस्थिताः, इहगमे क्वचिदादर्श न्यूनाधिकान्यपि पदानि दृश्यन्ते इति, एवमुक्तक्रमेण औपपातिकगमेनप्रथमोपाङ्गगतपाठेन तावद् वक्तव्यं यावत्तस्य राज्ञः पुरतो महाश्वाः- बृहत्तुरङ्गा अश्वधरा अश्वधारकपुरुषाश्च उभयतोभरतोपबाह्यगजरत्नस्य द्वयोःपार्श्वयोनागाः-गजा नागधराः- गजधारकपुरुषाश्च, पृष्ठतो रथाः रथसङ्गेली:-रथसमुदायः, देश्योऽयं शब्दः,चः समुच्यये, आनुपूा सम्प्रस्थिताः, अत्र यावत्पदसंग्रहश्चायं सवर्ण कसेनाङ्गानि, तत्राश्वाः- 'तयणंतरं च णं तरमलिहायणाणं हरिमेलामउलमल्लिअच्छाणं चंचुच्चिअललिअपुलिअचलचवलचंचलगईणं लंधणवग्गणधावणधोरणतिवइजइणसिक्खियगईणं ललंतलामगललायवरभूसणाणं मुहभंडगओचूलगथासगअहिलाणचामरगण्डपरिमण्डिअकडीणं किंकरवरतरुणपरिग्गहिआ अट्ठसयं वरतुरगाणंपुरओ अहाणुपुटवीए संपडिअंति, तदनन्तरं 'तरमल्लिहायणाणं ति' तरोवेगो बलंवा तथा 'मल्लमल्लिधारणे' ततश्च तरोमल्लीतरोधारको वेगाऽऽदिकृत् हायनः- संवत्सरो वर्त्तते येषां ते तथा, यौवनवन्त इत्यर्थः, अतस्तेषां वरतुरङ्गाणामिति योगः, 'वरगल्लिमासणाणं ति' क्वचित्पाठः / तत्र प्रधानमाल्यवतामत एव दीप्तिमतां चेत्यर्थः, हरिमेलावनस्पतिविशेषस्तस्या मुकुलंकुड्मलं मल्लिका च-विचकिलक्लातद्वदक्षिणी येषां तथा तेषां ते शुत्काक्षाणामित्यर्थः, 'चंचुच्चियं ति’ प्राकृतत्वेन चञ्चुरितंकुटिलगमनम् , अथवा चञ्चुः-शुकचञ्चुस्तद्वद्वक्रतयेत्यर्थः, उचितम्, उचितीकरणं पादस्योत्पाटनं चञ्चुचितं च तचलितं च विलासवद्गतिः पुलितं च-गतिविशेषः प्रसिद्ध एव, एवंरूपा चलोवायुराशुगत्वात् तद्वच्चपलचञ्चला-अतीव चपला गतिर्येषां तेतथा तेषां, शिक्षितम्-अभ्यस्तं लङ्घनगर्ताऽऽदेरतिक्रमणं वलानं-उत्कूईनं धावनंशीघ्रगमनं धोरणं गतिचातुर्य , तथा त्रिपदीभूमौ पदत्रयन्यासः, पदत्रयस्योन्नमनं वा जयिनीगत्यन्तरजनशीला गतिश्च येषां ते तथा तेषां, पदव्यत्ययः प्राकृत्वात्, लालनादोलायमानानि 'लाम ति आर्षत्याद् रम्याणि गललातानिकण्ठे न्यस्तानि वरभूषणानि येषां ते तथा तेषां, तथा मूखभाण्डकं मुखाऽऽभरणम् अवचूलाः- प्रलम्बगुच्छाः स्थासकादप्पणाऽऽकारा अश्वालङ्काराः,अहिलाणं मुखसंयमनम् एतान्येषां सन्तीति मुखभाण्डकावचूलस्थासकाहिलाणाः- मत्वर्थीयलोपदर्शनादेवं प्रयोगः, तथा चमरीगण्डै:- चामरदण्डै:परिमण्डिता कटिर्येषां ते तथा, ततः कर्मधारयस्तेषां, किङ्करभूता ये वरतरुणावरयुवपुरुषास्तैः परिगृहीतानां दवरकितानामित्यर्थः, अष्टोत्तरं शतं वरतुरगाणां पुरतो यथानुपूर्व्या सम्प्रस्थितम् / अथेभाः- 'तयणंतरं चणं ईसिदंताणं ईसिमत्ताणं ईसितुंगाणं ईसिउच्छंग उन्नयविसालधवलदंताणं कंचणकोसी-पविट्ठदंताणं कंचणमणिरयणभूसिआणं वरपुरिसारोहगसंपउत्ताणं गयाणं अट्ठसयं पुरओ अहाणुपुव्वीए संपत्थिअंति, ईषद्दान्तानांमनाग्ग्राहितशिक्षाणां गजानामिति योगः ईषन्मत्तानां यौवनाऽऽरम्भवर्त्तित्वात् ईषत्तुङ्गानाम् उच्चानां तस्मादेव उत्सङ्ग इवोत्सङ्गः-पृष्ठदेशः ईषदुत्सङ्गे उन्नता विशालाश्च यौवनाऽऽरम्भवर्त्तित्वादेव तेच तेधवलदन्ताश्चेति समासोऽतस्तेषां, काञ्चनकोशी-सुवर्ण-खोला तस्यां प्रविष्टा दन्ताः, अर्थाद् विषाणाऽऽख्या येषां तेतथा तेषां, काञ्चनमणिरत्नभूषितानामिति व्यक्तं, वरपुरुषा- येआरोहका निषादिनस्तैः सम्प्रयुक्तानां सज्जितानां गजानांगजकलभानामष्टोत्तरं शतंपुरतो यथानुपूर्व्या, सम्प्रस्थितम्, अथ रथाः- 'तयणंतरंचणं सच्छत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं सनंदिघोसाण सखिंखिणीजालपरिक्खित्ताणं हेमययचित्ततिणिसकणगणिजुत्तदारुगाणं कालायससुकयणेमिजंतकम्माणं सुसिलिट्ठवत्तमण्डलधुराणं आइण्णवरतुरगसुसंपउत्ताणं कुसलणरच्छेअसारहिसुसंपग्गहिआणंबत्तीसतोणपरिमंडिआणंसकंकडबडेंसगाणं सचावसरपहरणावरणभरिअजुद्धसज्जाणं, अट्ठसय रहाणं पुरओ अहाणुपुदीए संपट्ठिअंइति, उक्तार्थ चेदं प्राक् पद्मवरवेदिकाधिकारगतरर्थवर्णने, नवरमत्र विशेषणानां बहुवचननिर्देशः कार्यः,तत उक्तविशेषणानां रथानामष्टशतंपुरतोयथानुपूासम्प्रस्थितम्! अथपदातयः- 'तयणंतरं चणं असि-सत्तिकुंततोमरसूललउडभिंडमालधणुपाणिसज्जं पाइत्ताणी पुरओअहाणुपुव्वीए संपत्थिअंति, 'ततः पदात्यनीकं पुरतः सम्प्रस्थितं, कीशमित्याह-अस्यस्यादिनिपाणौ हस्तेयस्य तत्तथा,सज्जंचसयामाऽऽदिस्वामिकार्ये, तत्रास्यादीनि प्रसिद्धानि, नवरंशक्तिः-त्रिशूलं शूलंतु एकशूलं 'लउडत्ति' लकुटो भिन्दिपालः प्रागुक्तस्वरूप इति। अथ भरतः प्रस्थितः सन्पथि यद्यत् कुर्वन्यत्राऽऽगच्छति तदाह- 'तएणं' इत्यादि, ततः स भरताधिपो नरेन्द्रो हारावस्तृतसुकृतरतिदवक्षा यावदमरपतिसन्निभया ऋद्धा प्रथितकीर्तिश्चक्ररत्नोपदिष्टमार्गोऽनेकराजवरसहस्रानुयातमार्गो यावत्समुद्ररवभूतामिव मेदिनी कुर्वन् 2 सर्वद्ध्या यावन्नि!षनादितेन युक्त इतिगम्यं,ग्रामाऽऽकरनगरखेटकर्वटमडम्बयावत्पदात् द्रोणभुखपत्तनाऽऽश्रमसम्बाधसहस्रमण्डितां स्तिमितमेदिनीकां व
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy