________________ बंधण 1230 - अभिधानराजेन्द्रः - भाग 5 बंधण रीरिणो जीवतोऽन्तर्मुहूर्तात्परतोन वैक्रियशरीरावस्थानमस्ति पुनरौदारिकशरीरस्यावश्यं प्रतिपत्तेरिति / / रयणप्पभापुढविनेरइयपुच्छा? गोयमा! सव्वबंधे एक समयं, देसबंधं जहण्णेणं दमवाससहस्साई तिसमयऊणाई, उक्कोसेणं सागरोवम समयूणं / एवं० जाव अहे सत्तमाए, णवरं देसबंधे जस्स जा जहणिया ठिई सा तिसमयऊणा कायव्वा० जाव उक्कोसा समयऊणा / पंचिंदियतिरिक्खजोणियाणं मणुस्साण य जहा वाउकाइयाणं असुरकुमारनागकुमार० जाव अणुत्तरोव वाइयाणं जहा नेरइयाणं,णवरं जस्स जा ठिई सा भाणियव्वा० जाव अणुत्तरोववाइयाणं सव्वबंधे एक समयं, देसबंधे जहण्णेणं एक्कतीससागरोवमाई तिसमयऊणाई। उक्कोसेणं तेत्तीसं सागरो वमाइं समयऊणाई (रयणप्पभेत्यादि) (देसबंधं जहण्णेणं दसवाससहस्साइ त्ति) कथं 'सिमयविग्रहेण रत्नप्रभायां जघन्यस्थित रकः समुत्पन्नस्तत्र च समयद्वयमनाहारकस्तृतीये च समये सर्वबन्धकस्ततो देशबन्धको वैक्रियस्य तदेवमाद्य समयायन्यून वर्षसहस्रदशकंजघन्यतो देशबन्धः / (उक्ोसेणं सागरोवमं समयूणं ति)। कथमविग्रहेण रत्नप्रभायामुत्कृष्टस्थितिरिकः समुत्पन्नस्तत्र च प्रथमसमये सर्वबन्धको वैक्रियशरीरस्य ततः परं देशबन्धकस्तेन सर्वबन्ध सगयेनोनं सागरोपममुत्कषतो देशबन्ध इति, एवं सर्वत्र सर्वबन्धः समयं, देशबन्धश्च जघन्यो विग्रहसमयत्रयन्यूनो निजनिजजघन्यस्थितिप्रमाणो वाच्यः, सर्वबन्धसमयन्यूनो त्कृष्ट - स्थितिप्रमाणश्चोत्कृष्टदेशबन्ध इत्येतदेवाऽऽह - एवं जावेत्यादि) पञ्चेन्द्रियतिर्यग्मनुष्याणां वैक्रियसर्वबन्ध एकं समयं, देशबन्धस्तु जघन्यत एकसमयमुत्कर्षेण त्वन्तर्मुहूर्त मेतदेवातिदंशेनाऽह-(पंचिदियेत्यादि) यच-"अंतोमुहुर्त नरए-सु होइ चत्तारि तिरियमणुएसु। देवेसु अद्धमासो, उकोस विउव्वणाकालो।।१।।" इति वचनसामदिन्त मुहूर्त चतुष्टयं तेषां देशबन्ध इत्युच्यते, तन्मतान्तरमित्यवसेयमिति / उक्तो वैक्रियशरीरप्रयोगबन्धस्य कालः। अथ तस्यैवान्तरं निरूपयन्नाह - वेउव्वियसरीरप्पओगबंधंतरेणं भंते! कालओ केवचिरं होइ? गोयमा! सव्वबंधंतरं जहण्णेणं एकं समयं, उक्कोसेणं अणंतं कालं, अणंताओ, जाव आवलियाए असंखेजइभागो, एवं देसबधंतरं पि। वाउकाइयवेउव्वियसरीरपुच्छा? गोयमा! सव्वबंधंतरं जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पलिओवमस्स असंखेज्जइभागं / एवं देसबंधंतरं पि। तिरिक्खजोणि-पंचिदियवेउ व्विय सरीरप्पओगबंधंतरपुच्छा?गोयमा ! सव्वबंधंतरं जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडिपुहुत्तं / एवं देसबंधंतरं पि। एवं मणुयस्स वि। (वेउदिवएत्यादि) (सव्वबंधतरं जहण्णेण एक समयं ति) कथमौदा- | रिकशरीरी वैक्रियं गतः प्रथमसमये सर्वबन्धको, द्वितीये देशबन्धको भूत्वा मृतो देवेषु नारकेषु वा वैक्रियशरीरिष्व विग्रहेणोत्पद्यमानः प्रथमसमये सर्वबन्धक इत्येवमेकः समयः सर्वबन्धान्तरमिति / (अकोसेणं अणंत कालं ति) कथमौदारिकशरीरी वैक्रियं गतो वैक्रियशरीरिषु वा देवाऽऽदिषु समुत्पन्नः, सच प्रथमसमये सर्वबन्धको भूत्वादेशबन्धं च कृत्वा मृतस्ततः परमनन्तकालमौदारिकसशरीरिषु वनस्पत्यादिषु स्थित्वा वैक्रियशरीरवत्सूत्पन्नस्तत्रा च प्रथमसमये सर्वबन्धको जातः, एवं च सर्वबन्धयोर्यथोक्तमन्तरं भवतीति। (एवं देसबंधंतरं पित्ति) जघन्यनैकं समयमुत्कृष्टतो ऽनन्तकालमित्यर्थः, भावनाचास्य पूर्वोक्तानुसारेणेति / (वाउकाइएत्यादि) (सव्वबंधंतरं जहन्नेणं अंतोमुहत्तं ति) कथं वायुरौदारिकशरीरी वैक्रियशक्तिमापन्नस्तत्रा च प्रथमसमये सर्व बन्धको भूत्वा मृतः पुनर्वायुरेव जातस्तस्य वा पर्याप्तकस्य वैक्रियशक्ति विर्भवतीत्यन्तमुहूर्त्तमात्रोणाऽसौ पर्याप्तको भूत्वा वैक्रियशरीरमारभते, तत्र चासौ प्रथमसमये सर्वबन्धको जात इत्येवं सर्वबन्धान्तरमन्तर्मुहूर्त्तमिति / (उक्कोसेणं पलिओवमरस असंखेजइभाग ति) कथं वायुरौदारिकशरीरी वैक्रियं गतस्तत्प्रथमसमये च सर्वबन्धकस्ततो देशबन्धको भूत्या मृतस्ततः परमौदारिकशरीरिषु वायुषु पल्योपमाऽसंख्येयभागमति बाह्यवश्यं वैक्रियं करोति, तत्रा च प्रथमसमये सर्वबन्ध एवं च सर्वबन्धयोर्यथोक्तमन्तरं भवतीति / (एवं देसबंधंतरं पित्ति) / अस्य भावना प्रागिवेति। (तिरिक्खेत्यादि) (सव्वबंधंतर जहन्नेणं अंतोमुहत्तं ति) कथं पञ्चेन्द्रियतिर्यग्योनिको वैक्रियं गतस्ता च प्रथमसमये सर्वबन्धकस्ततः परं देशबन्धकोऽन्त मुहूर्तमात्र, तत औदारिकस्य सर्वबन्धको भूत्वा समय देशबन्धको जातः पुनरपि श्रद्धेयमुत्पन्ना वैक्रिय करोमीति पुनवैक्रियं कुर्वतः प्रथमसमयं सर्वबन्ध एवं च सर्वबन्धयोर्यथोक्तमन्तरं भवतीति। (उक्कोसेणं पुटवकोडिपुहुत्तं त्ति) कथं पूर्वकोट्यायुः पञ्चेन्द्रियतिर्यग्योनिको वैक्रियं गतस्तत्र च प्रथम समये सर्वबन्धकस्ततो देशबन्धको भूत्वा कालान्तरे मृतः पूर्व कोट्यायुः पञ्चेन्द्रियतिर्यक्ष्वेवोत्पन्नः पूर्वजन्मनः सह सप्ताष्टौ वारान् नततः सप्तमेऽष्टमे वा भवे वैक्रिय गतस्ता च प्रथमसमये सर्वबन्धं कृत्वा देशबन्धं करोतीत्येवं सर्वबन्धयोरुत्कृष्ट यथोक्तमन्तर भवतीति। (एवं देसबंधतरं पित्ति) भावना चास्य सर्वबन्धान्तरोक्तभावनाऽनुसारेण कर्त्तव्येति। वैक्रियशरीरबन्धान्तरमेव प्रकान्तरेण चिन्तयन्नाहजीवस्स णं भंते! वाउकाइयत्ते नो वाउकाइयत्ते पुण्णरवि वाउकाइयत्ते वाउकाइयएगिदियवेउव्वियपुच्छा? गोयमा! सव्व बंधंतरं जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं अणंतं कालं वणस्सइकालो / एवं देसबंधंतरं पि। (जीवस्स इत्यादि) (सध्वबंधंतरं जहन्ने णं अंतो मुहुरा ति) क थं वायु 4 कि यशरीरं प्रतिपन्नस्तत्रा च प्रथम समये सर्व बन्धको भूत्वा मृतस्ततः पृथिवीकायिके षूत्पन्नस्तत्राऽपि क्षुल्लक भवमात्रां स्थित्वा पुनर्वायुतिस्ताऽपि कतिपयान