SearchBrowseAboutContactDonate
Page Preview
Page 1239
Loading...
Download File
Download File
Page Text
________________ बंधण 1231 - अभिधानराजेन्द्रः - भाग 5 बंधण क्षुल्लकभवान् स्थित्वा वैक्रिय गतस्तत्राच प्रथमसमये सर्व बन्धकोजात- | स्ततश्च वैक्रियस्य वैक्रियस्य च सर्वबन्धयोरन्तरं बहवः क्षुल्लकभवास्ते च बहवोऽप्यन्तर्मुहुत्तमन्तर्मुहूर्ते , बहूनां क्षुल्लकभवानां प्रतिपादितत्वात्, ततश्च सर्वबन्धान्तरं यथोक्तं भवतीति। (उकोसेणं अणतं कालवणस्सइकालो त्ति) कथं वायुर्वेक्रियशरीरी भवन् मृतो वनस्पत्यादिष्वनन्तं कालं स्थित्वा वैक्रियशरीरं पुनर्यदा लप्स्यते तदा यथोक्तमन्तरं भविष्यतीति। (एवं देसवंधतर पित्ति) भावना चास्य प्रागुक्तानुसारेणेति। रत्नप्रभासूत्रोजीवस्स णं भंते! रयणप्पभापुढपिनेरइयत्ते नोरयणप्पभापुढ विपुच्छा? गोयमा! सव्वबंधंतरं जहण्णेणं दसवाससहस्साई अंतोमुहुत्तमन्भहियाई, उक्कोसेणं वणस्सइकालो, देसबंधंतरं जहण्णेणं अंतोमुहत्तं, उक्कोसेणं अणंतं कालं वणस्सइकालो एवं० जाव अहे सत्तमाए, णवरं जा जस्स ठिई जहणिया सा सव्वबंधंतरं जहण्णेणं अंतोमुहुर्तमभहिया कायव्या, सेसं तं चेव / पंचिंदियतिरिक्खजोणियमणुस्साण य जहा चाउकाइयाणं, असुरकुमारनागकुमार० जाव सहस्सारदेवाणं, एएसिं जहा रयणप्पभापुढविनेरझ्याणं, नवरं सव्वबंधंतरं जस्स जा ठिई जहन्निया सा अंतोमुहुर्तमब्भहिया कायव्वा, सेसं तं चेव। (सव्वबंधंतरंमित्यादि) एतद्भाव्यते रत्नप्रभानारको दशवर्ष सहस्रस्थितिक उत्पत्तौ सर्वबन्धकरतत उवृत्तस्तुगर्भजपञ्चे न्द्रियेष्वन्तर्मुहूर्त स्थित्वा रत्नप्रभाया पुनरप्युत्पन्नस्ता च प्रथमसमये सर्वबन्धक इत्येवं सूत्रोक्तं जघन्यमन्तरं सर्वबन्ध योरिति, अयं च यदाऽपि प्रथमोत्पत्तौ सिमयविग्रहेणोत्पद्यते तदाऽपि न दशवर्षसहस्राणि त्रिसमयन्यूनानि भवन्ति अन्तर्मुहूर्तस्य मध्यात्समयत्रायस्य तत्र प्रक्षेपान्न च तत्प्रक्षेपेऽप्यन्तर्मुहुर्तत्त्वव्याघातस्तस्यानेकभेदत्वादिति। (उक्कोसेणं वणस्सइकालो त्ति) कथं रत्नप्रभानारक उत्पत्तौ सर्वबन्धकस्तत उदवृत्तश्चानन्तं कालं वनस्पत्यादिषु स्थित्वा पुनस्तौवोत्पद्यमानः सर्वबन्ध इत्येवमुत्कृष्टमन्तरमिति / (देसबंधंतरं जहन्नेणं अतोमुहत्तं ति) कथं रत्नप्रभानारको देशबन्धकस्सन् मृतोऽन्तर्मुहूर्ताऽऽयुः पञ्चेन्द्रियतिर्यक्तयोत्पद्य मृत्वा रत्नप्रभानारकतयोत्पन्नस्तत्र च द्वितीयसमये देशबन्ध इत्येवं जघन्य देशबन्धस्यान्तरमिति (उक्कोसेणमित्यादि) भावना प्रागुक्तानुसारेणेति, शर्करप्रभा-दिनारकवैक्रियशरीर बन्धस्यान्तरमतिदेशतः संक्षेपार्थमाह -(एवं जावेत्यादि) द्वितीयाऽदिपृथियीषु जघन्या स्थितिः क्रमेणैकं त्रीणि सप्तदश द्वाविंशतिश्च सागरोपमाणीति, पञ्चेन्द्रियेत्यादौ (जहा वाउकाइयाण त्ति) जयन्येनान्तमुहूर्त्तमुत्कृष्टः पुनरनन्तं कालमित्यर्थोऽसुरकुमाराऽऽदयस्तु सहस्त्रारान्ता देवा उत्पत्तिसमये सर्वबन्धं कृत्वास्वकीयां च जघन्यस्थितिमनुपाल्य पञ्चेन्द्रियतिर्यक्षु जघन्ये नान्तर्मुहूर्तायुष्कत्वेन समुत्पद्य मृत्वा च तेष्वेव सर्वबन्धका जाता एवं च तेषां वैक्रियस्य जघन्य सर्वबन्धान्तरंजघन्यातत्स्थितिरन्तर्मुहूर्ताधिका वक्तव्याः उत्कृष्ट त्वनन्त कालं यथा रत्नभानारकाणामित्येतद्दर्शयन्नाह -(असुरकुमारेत्यादि) तत्रा जघन्य स्थितिरसुरकुमाराऽऽदीनाव्यन्तराणां च दश वर्षसहस्राणि ज्योतिष्काणा पल्योपमाष्टभागः सौधर्माऽऽदिषु तु (पलियं अहियं दोसा रसाहिया सत्तदस य चोदसेत्यादि) आनतसूत्रेजीवस्सणं भंते! अणायदेवत्ते नोआणयदेवत्ते पुच्छा? गोयमा! सव्वबंधंतरं जहन्नेणं अट्ठारससागरोवमाई वासपुहुत्तमब्भहियाई, उक्कोसेणं अणंतं कालं वणस्सइकालो, देसबंधंतरं जहन्नेणं वासपुहुत्तं, उक्कोसेणं अणंतं कालं वणस्सइकालो, एवं० जाव अचुए, नवरं जस्स जा ठिई सा सव्व बंधंतरं जहन्नेणं वासपुहत्तमभहिया कायव्वा, सेसं तं चेव / गेविजकप्पातीयपुच्छा? गोयमा! सव्वबंधंतरं जहन्नेणं वावीसं सागरोवमाइं वासपुहुत्तममहियाई, उक्कोसेणं अणंतं कालं वणस्सइकालो, देसबंधंतरं जहन्नेणं वासपुहत्तं उक्कोसेणं वणस्सइकालो।। (सव्वबंधंतरंमित्यादि) एतस्य भावना ओनतकल्पीयो देष उत्पत्तौ सर्वबन्धकः स, चाष्टादशसागरोपमाणि तत्र स्थित्वा ततश्च्युतो वर्षपृथक्त्वं मनुष्येषु स्थित्वा पुनस्तौवोत्पन्नः प्रथमसमये चाऽसौ सर्वबन्धक इत्येवं सर्वबन्धान्तरं जघन्यमष्टः दशसागरापमाणि वर्षपृथक्त्वाधिकानीति, उत्कृष्ट त्वनन्तं कालम्। कथं स देवस्तस्माचयुतोऽनन्त काल वनस्पत्यादिषु स्थित्वा पुनस्तौवोत्पन्नः प्रथमसमये चाऽसौ सर्वबन्धक इत्येवमिति। (देसबंधंतरं जहण्णेणं वासपुहुत्त त्ति) कथं स एव देशबन्धकः संश्च्युतो वर्ष पृथक्त्वं मनुष्यत्वमनुष्यमनुभूय पुनस्ताव गतस्तस्य च सर्वबन्धानन्तरं देशबन्ध इत्येवं सूत्रोक्तमन्तरं भवति। इह च यद्यपि सर्वबन्धसमयाधिकं वर्षपृथक्त्वं भवति तथाऽपि तस्य वर्षपृथक्त्वादनान्तरत्वविवक्षया न भेदेन गणनमिति, एवं प्राणताऽऽरणाच्यतु प्रेषेयक सूत्रााण्यपि, अथ सनत्कु माराऽऽदि सहस्रारान्ता देवा जघन्यतो नवदिनाऽऽयुष्केभ्य आनताऽऽद्य च्युतान्तास्तु नवमासाऽऽयुष्केभ्यः समुत्पद्यन्त इति जीवसामस्खे अभिधीयते। ततश्च जघन्यं तत्सर्वबन्धान्तरंतत्तदधिकतद्जघन्यस्थितिरुपं प्राप्नोति। सत्यमेतत्, केवलं मतान्तरमेवेदमिति। अनुत्तरविमानसूत्रो (उक्कोसेणमित्यादि) उत्कृष्टं सर्वबन्धान्तरं देशबन्धान्तरं च संख्यातानि स गरोपमाणि यतो नानन्तकालमनुत्तरविमानच्युतः संसरति / तानि च जीवसमासमतेन द्विसंख्यानीति। अथ वैक्रिय शरीरदेशबन्धकाऽऽदीनामल्पत्वाऽऽदि निरुपणाया ऽऽह - जीवस्स णं भंते ! अणुत्तरोववाइयपुच्छा? गोयमा! सव्वबंधंतरं जहन्नेणं एकतीसं सागरोवमाइं वासपुहुत्तमन्महियाई, उक्कोसेणं संखेजाइ सागरोवमाई, देसबंधंतरं जहन्नेणं वासहुत्तं, उक्कोसेणं संखेज्जाइंसागरोवमाइं। एतेसिणं भंते! जीवाणं वेउव्वियसरीरस्स
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy