SearchBrowseAboutContactDonate
Page Preview
Page 1069
Loading...
Download File
Download File
Page Text
________________ थविरकप्प 2361 - अभिधानराजेन्द्रः - भाग 4 थविरकप्प य उस्सप्पं त्ति) उत्सर्पिण्या जन्मतस्त्रिषु द्वितीयतृतीयचतुर्थेषु आरकेषु . सद्भावतस्तुद्वयोस्तृतीयचतुर्थारकयोर्भवन्ति, नोअव-सर्पिण्युत्सर्पिणीकाले जन्मतः, सद्भावतश्च दुःषमसुषमाप्रतिभागे भवन्ति। संहरणतस्तु चत्वारोऽपि प्रतिभागा अमीषां विषयतया प्रतिपत्तव्याः / तद्यथासुषमसुषमाप्रतिभागः, दुःषमदुःषमाप्रतिभागः, सुषमदुःषमाप्रतिभागः, दुषमसुषमाप्रतिभागश्चेति। पढमविइएसु पडिवजमाण इयरे उ सव्वचरणेसु / नियमा तित्थे जम्मऽट्ट जहन्ने कोडि उक्कोसे ||801 // पव्वजाएँ मुहुत्तो, जहन्नमुक्कोसिया उदेसूणा। आगमकरणे भइया, ठियकप्पे अहिए वा वि।।८०२|| प्रतिपद्यमानका अभी प्रथमेवा सामायिकाऽऽख्ये, द्वितीये वा छेदोपस्थापनीयाऽऽरख्ये चारित्रे भवेयुः / इतरे नाम-पूर्वप्रतिपन्नाः, ते सर्वेष्वपि चरणेषु भवन्ति, सामायिकाऽऽदिषु यथाख्यातपर्यन्तेष्विति भावः / तथा नियमादमी तीर्थे भवन्ति, नातीर्थे / पर्यायो द्विधा-गृहपर्यायः, प्रव्रज्यापर्यायश्च। तत्र गृहपर्यायो जघन्यतोजन्मन आरभ्याऽष्टौ वर्षाणि, उत्कर्षतः पूर्वकोटी। प्रव्रज्यापर्यायो जघन्यतोऽन्तर्मुहूर्तः, तदनन्तरं मरणात्प्रतिपाताद्वा। उत्कर्षतस्तु देशोना पूर्वकोटी। आगमोऽपूर्वश्रुताध्ययन, तस्य करणे भाज्या-अमी कुर्वन्ति वा, न वा तमिति भावः / कल्पद्वारेस्थितिकल्पे वा अस्थितकल्पे वा भवेयुः / वेदद्वारं सुज्ञानत्वाद्भाष्यकृता न भावितम्। इत्थं तु द्रष्टव्यम्-वेदः स्त्रीपुंनपुंसक भेदात् त्रिविधोऽप्यमीषा प्रतिपत्तिकाले भवेत्। किमुक्तं भवति?-पूर्वप्रतिपन्नानां त्ववेदकत्वमपि भवतीति। भइया उ दव्वलिंगे, पडिवत्ती सुद्धलेसधम्मेहिं। पुव्वपडिवन्नगा पुण, लेसाझाणे य अन्नयरे / / 503 / / प्रतिपद्यमानकाः,पूर्वप्रतिपन्नकाश्च द्रव्यलिङ्ग भक्ता विकल्पिताःकचित्तन्न भवत्यपीति, भावलिङ्ग तु नियमात्सर्वदैव भवति / तथा प्रतिपत्तिः शुद्धलेश्याधर्मध्यानयोर्भवत् / किमुक्तं भवति?-प्रथमतः प्रतिपद्यमानकाः शुद्धास्वेव तिसृषु लेश्यासु आहाविषयाऽऽदौ च धर्मध्याने वर्तमानाः प्रतिपत्तव्याः / पूर्वप्रतिपन्नकाः पुनः षण्णा लेश्यानामन्यतरस्यां लेश्यायामार्ताऽऽदीनां च ध्यानानामन्यतरस्मिन् ध्याने भवेयुः। बृ०१उ०। अर्थताभिर्भावलेश्याभिरुपचितस्य कर्मणः कथमुदयो भवति? इत्याहजं चिज्जए उ कम्म, जलेसं परिणतस्स तस्सुदए / असुभो सुभो व गीतो, अपत्थपत्थन्नउदओ व्व / / 806 / / (ज लेसं ति) सप्तम्यर्थे द्वितीया / ततोऽयमर्थः यस्यां कृष्णाऽऽदीनामन्यतरस्यां लेश्यायां परिणतस्य जीवस्य यदशुभं शुभं वा कर्म ज्ञानाऽऽवरणाऽऽदि चीयते। कर्मकर्तर्ययं प्रयोगः, चयंबन्ध मुपगच्छतीत्यर्थः / तस्यैवमशुभरूपतया, शुभरूपतया वा बद्धस्य कर्मण उदयाऽऽवलिकां प्राप्तस्याशुभः, शुभो वा तथाऽनुरूप एवोदयो गीतः संशब्दितस्तीर्थकरैः / दृष्टान्तमाह-अपथ्यपथ्यान्नउदय इव / यथा अपथ्यान्न भुक्तवतो ज्वराऽऽदिरोगद्वारेणापथ्य एवोदयो भवति, पथ्यान्नं तु भुक्तवतो मुखनासिकादिद्वारेण पथ्यः, एवं कर्मणोऽपि प्रशस्ताप्रशस्तलेश्यपरिणामबद्धस्य विपाकः शुभाशुभो भवतीति। अथ गणनाद्वारमाहपडिवजमाणभइया, एको व सहस्ससो व उक्कोसो। कोडिसहस्सपुहत्तं,जहन्न उक्कोसपडिवण्णा ||10|| स्थविरकल्पस्य प्रतिपद्यमानका भाज्या विवक्षितकाले भवेयुः, तत एको द्वौ वा त्रयो या उत्कर्षतो यावत् सहस्रपृथक्त्वं, पूर्वप्रतिपन्नाः जघन्यतोऽपि कोटिसहस्रपृथक् त्वं , नवरं जघन्यपदादुत् कृष्टपदे विशेषाधिकत्वम् / गत गणनाद्वारम् / बृ०१उ०। ('अभिग्गह' शब्दे प्रथमभागे 713 पृष्ठेऽभिग्रहा उक्ताः) एते च द्रव्याऽऽदयश्चतुर्विधा अप्यभिग्रहास्तीर्थकरैरपि यथायोगमाचीपर्णत्वाद, मोहमदापनयनप्रत्यलत्वाच गच्छवासिना तथाविधसहिष्णुपुरुषविशेषापेक्षया महान्तः कर्मनिबन्धने प्रतिपत्तव्या इति। अथ प्रव्राजनामुण्डापनाद्वारे भावयतिसञ्चित्तदवियकप्पं, छव्विहमवि आयरंतिथेरा उ। कारणओ असहू वा, उवएसं दिति अन्नत्थ।।८१७॥ प्रव्राजनामुण्डापनाभ्याम्, उपलक्षणत्वात् षट्टिधोऽपि सचित्तद्रव्यकल्पो गृहीतः / तद्यथा-प्रव्राजना, मुण्डापना, शिक्षापना, उपस्थापना, संभुञ्जना, संचायना चेति / तमेवंविधं षड्विधमपि सचित्तद्रद्रव्यकल्पमाचरन्ति स्थविरा गच्छवासिनः / (कारणओ त्ति) तथाविधैरनाभाव्यताऽऽदिभिः कारणैः, असहिष्णवो वा स्वयं वस्त्रपात्राऽऽदिभिर्ज्ञानाऽऽदिभिश्च शिष्याणां संग्रहोपग्रहो कर्तुमसमर्था उपदेशमन्यत्र गच्छान्तरे, ददति प्रयच्छन्ति-अमुकत्र गच्छे संविग्नगीतार्था आचार्याः सन्ति तेषां समीपे भवता दीक्षा प्रतिपत्त-व्येति। अथ मनसाऽऽपन्ने नास्ति प्रायश्चित्तम्। इदं व्याख्यानयतिजीवो पमायबहुलो, पडिवक्खे दुक्करं ठवेउं जे / कित्तियमेत्तं वोच्छिति, पच्छित्तं दुग्गतरिणी व? ||15|| अयं जीवः प्रमादबहुलोऽनादिभवाभ्यस्तप्रमादभावनाभावितः, ततः प्रतिपक्षेऽप्रमादे स्थापयितुं दुष्करं भवति, दुःखेनाप्रमाद् भावनायां स्थाप्यते इत्यर्थः / "जे" इति पादपूरणे / अतो दुर्गत ऋणिक इव अतिप्रभूतं ऋणं अतिचपलचित्तसंभवापराधवशादयं प्रमादबहुलो जीव उपदेशमापद्यमानं कियन्मात्रं प्रायश्चित्तं वक्ष्यति बोढुं शक्नोतीति मनसाऽऽपन्नेऽप्यपराधे नास्ति तपः प्रायश्चित्तं स्थविरकल्पिकानाम्, आलोचनाप्रतिक्रमणप्रायश्चित्तं तु तत्रापि भवत इति मन्तव्यम् / अथ 'कारणे पडिकम्मम्मि य ति (766)" पदं व्याख्यायते-कारणमशिवावमौदर्याऽऽदि, तत्रोत्पन्ने द्वितीय-पदमप्यासेवन्ते। तथा निष्कारणे निष्प्रतिकर्मशरीराः, कारणे तुग्लानमाचार्यवादिनंधर्मकथिकं च प्रतीत्य पादधावनमुखमार्जनशरीरसंबाधनाऽऽदिकरणात् सप्रतिकर्माण इति / "भत्तं पंथो य भयणाए त्ति (766)" भक्तं पन्थाश्च भजनया। किमुक्तं भवति?- उत्सर्गतस्तावत्तृतीयपौरुष्या भिक्षाटनं विहारं कुर्वन्ति / अपवाद-तस्तुतदानी भिक्षाया अलाभे काले वा पूर्यमाणे शेषास्वपि पौरुषीध्विति / गतं स्थितिद्वारम् / अथोपसंहरन्नाहगच्छम्मि य एस विही, नायव्वो होइ आणुपुटवीए। जं एत्थं णाणत्तं, तमहं वोच्छं समासेणं // 16 //
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy